Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः]
२२४७
१२श अध्यायः] इन्द्रियस्थानम् ।
इत्यौत्पातिकमाख्यातं पथि वैद्यविहितम्। इमामपि च बुब्येत गृहावस्थां मुमूर्षताम् ॥ २२ ॥ प्रवेशे पूर्णकुम्भाग्नि-मृद्वीजफलसर्पिषाम् । वृषब्राह्मणरत्नानां देवतानाञ्च निर्गतिम् ॥ अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च । भिषग् मुमूर्षतां वेश्म प्रविशन्नेव पश्यति ॥ २३ ॥ छिन्नभिन्नाभग्नानि दधानि मृदितानि च । दुर्बलानि च सेवन्ने मुमूर्षोवैश्मिका जनाः ॥ २४ ॥ शयनं वसनं यानं गमनं भोजनं रुतम् । श्रूगते मङ्गलं यस्य नास्ति तस्य चिकित्सितम् ॥ २३॥
आतुराय गच्छता वर्त्मनि एतान्या रास्तानि शृण्वतापि. तदागारं न गन्तव्यम् ।। २।२२ ॥
गङ्गाधरः-पथि चौत्पातिकमुक्त्या आतुरकुलानामौत्पातिकमाह-प्रवेशे इत्यादि। आतुरभवनप्रवेशकाले वैद्यः पूर्णकुम्भादीनां निर्गतिम् आतुरभवनान्निःसरणं, तथाग्निपूर्णानि पात्राणि भिन्नानि भग्नानि विशिखानि मुमर्षतामातुराणां वेश्म प्रविशन् पश्यत्येव ॥२३॥
गङ्गाधरः-छिन्नेत्यादि। आतुरस्य वैश्मिका गृहनियता जना यदि छिन्नभिन्नादीनि वस्तुनि सेवन्ते, तदा तमातुरं मुमप विद्यादिति भावः। मुमचौरातुरस्य हि वैश्मिका जनाश्छिन्नादीनि वस्तूनि सेवन्ते ॥२४॥
गङ्गाधरः- शयनमित्यादि। यस्य शयनादिकममङ्गलं श्रूयते तस्य चिकित्सितं नास्ति ॥२५॥
इति विडालादिभिर्मार्गलकनम् । मृगद्विजाः क्रूराः शृगालगृध्रादयः। दीप्ता दिक, यस्या सूर्यो वर्तते, किंवा दक्षिणा दिक दीप्तोच्यते। शयनं खटादि। आसनं पीठादि ॥ २०-२२ ।।
चक्रपाणिः-विशिखानीति खण्डितानि । किंवा विशिकानीति पाठः, तदा शयानीत्यर्थः ।
For Private and Personal Use Only

Page Navigation
1 ... 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100