Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४६
चरक-संहिता। गोमयचूर्णीयमिन्द्रियम् वस्त्रोष्णीषोत्तरासङ्गा-च्छत्रोपानदयुगाश्रयम् । पतनं - दर्शनं वाणि मृतं व्यसनिनं + तथा ॥ चैत्यध्वजपताकानां पूर्णानां पतनानि च । हतानिष्टप्रवादांश्च दूषणं + भस्मपांशुभिः ॥ पथश्छेदो विडाले न शुना सण वा पुनः। मृगद्विजानां कराणां गिरो दोप्तां दिशं प्रति ॥ बजतां दशन चैवमुत्तानानाञ्च दर्शनम् । इत्येतान्यप्रशरतानि साण्याहुर्मनीषिणः ॥ एतानि पथि वैद्य न पश्यतातुरवर्त्मनि । शृण्वताप्ति न गन्तव्यं तदागा विपश्चिता ॥ २१ ॥
विगर्हणं निन्दाकरणं वस्त्र परिधानवसनम् उष्णीषं शिराबन्धनवस्त्रम् उत्तर उत्तरीयवस्त्रं तेष्वासङ्गः । छत्रमुपानदयुगं तेपामाश्रयः। पतनं तेषां पतनमेव तेषा दर्शनं वा मृतं जन्तु व्यसनिनं छेवस्त्रादिविषयकव्यसनं पूर्णानां चैत्यादीनां पतनानि हतप्रवादान् अनिष्टप्रवादान् तथा भस्मपांशुभिदूषणं व्याकुलीभवनम् । विडालेन पथश्छेदो विडालो गमनपथरय तिर्यग् यद् गच्छति तद् गमनं छेदः पथः । एवं शुना वा पथश्छेदः सर्पणवा पथश्छेदः। क्रराणां मुगद्विजानां मृगाणां व्याघ्रादीनां द्विजानां श्येनादीनां पक्षिणां गिरो नादान दीप्तां मू-वस्थानेन सप्रकाशां नानाविधकोलाहलध्वनिभिर्वा रफुटां नानाविधस्फुटकरभावैर्या स्फुटां दक्षिणां वा दिशं प्रति तादृशदिग्भागे। क्रूराणां मृगपक्षिणां बजतां गच्छतां दर्शनम् । एवमुत्तानानां क्रूराणां मृगपक्षिणां वा दर्शनम् । इत्येतानि सर्वाणि अप्रशस्तानि मनीषिण आहुः। पथि एतान्यप्रशस्तानि पश्यता वैदेवन विपश्चिता तदागारं न गन्तव्यम् । आतुरवर्त्मनि प्रतिषेधो मा गच्छ इत्येवंरूपः । व्यसनं वस्त्रादीनां यत् स्फुटनादि। व्यसनीति व्यङ्गः, कलहवान् वा। पूर्णाः पूर्णकुम्भादयः। भूषणं भस्मपांशुभिरिति भस्मपांश्ववकिरणम् । पथिच्छेद * व्यसनम् इति वा पाठः ।
+ मृतव्यसनिनां इति चक्रः। * भूषणमिति चक्रसम्मतः पाठः ।
s वेश्मनि इति च पठ्यते।
For Private and Personal Use Only

Page Navigation
1 ... 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100