Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२३६
चरक-संहिता। [ अणुज्योतीयेन्द्रियम् पादाः समेताश्चत्वारः सम्पन्नाः साधकैर्गुणैः । व्यर्या गतायुषो द्रव्याद्विना नारित गुणोदयः॥ २४ ॥ परीक्ष्यमायुर्भिषजा नीरुजस्यातुरस्य च । आयुठवेंदफलं कृत्स्नमायुदेह्यनुवर्तते ॥ २५ ॥
पुनर्भेषजं हन्यते। एषां भिषगादिद्वेषिणामन्नानि साघुर्न भुञ्जीत न चोदकमपि स्पृशेत् पानस्य का कथा। भिषगादिद्वेषिणां मृतप्रायत्वेनान्नजलयोरशुद्धखान्। नन्वेवं चेत् सर्वेषामेव जातारिष्टानामन्नजलग्रहणं न प्रसज्येतेति चेन्न, तथाविधत्वेन ज्ञातत्वे मृतप्रायत्वेऽपि भिषगादिद्वेषिणामतिपापात् ।। २३॥
गङ्गाधरः-ननु जातारिष्टानां गुणवच्चतुष्पादेऽपि सति किं नारोग्यं स्यादित्यत आह–पादा इत्यादि। साधकः फलसाधकतमैर्भिषगादीनां श्रुतपय्यवदातखादिभिर्गुणैः सम्पन्नाश्चत्वारः पादाः भिषग् द्रव्योपस्थातरोगिणः समेता मिलिता अपि गतायुषो नरस्य व्यर्था निष्फलाः आरोग्यफलस्य न साधकाः। कस्मादित्यत आह-द्रव्यादित्यादि। यस्माद् द्रव्यात् जीवनहेतोः आयुषो विना गुणोदयश्चिकित्साफलस्यारोग्यस्योदयो नास्ति ॥ २४॥
गङ्गाधरः-परीक्ष्यमित्यादि। नीरुजस्य स्वस्थस्य आतुरस्य चायुर्भिषजा परीक्ष्यं परीक्षितव्यम् । कृत्स्नमायुर्वेदफलमायुदेही यस्मादनुवर्तते ॥२५॥
एतेष्वित्यादि। भेषजं प्रतिहन्यत इति सम्यक् कृतमपि भेषजं हन्यत इत्यर्थः। नैषामन्नानि भुञ्जीत इति प्रायेण तदन्नस्यारिष्टत्वात्। एवमुदकप्रतिषेधेऽपि बोध्यम् ॥ २३ ॥
चक्रपाणिः-पादा भेषजादयः। साधकैर्गुणैरिति श्रुते पर्यवदातत्वमित्यादिभिः षोडशगुणै सम्पन्नाः। कस्माद् वैद्यादयो गतायुषो रोगान् न साधयन्तीत्याह-द्रव्यं विना नास्ति गुणोदर इति, द्रव्यं कारणं विना आरोग्यलक्षणो गुणोदयो नास्ति, कारण चेहारोग्योत्पत्तौ अगतायुष्टवम् तच्च नास्तीति भावः। भायुनिफलं विद्यमानायुपि भेषजदानात् ॥ २४॥२५॥
For Private and Personal Use Only

Page Navigation
1 ... 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100