Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२३४
चरक-संहिता। । अणुज्योतीयेन्द्रिय अहास्यहासी संमुह्यन् यो लेढि दशनच्छदो। शीतपादकरोच्छासो यो नरो न स जीवति ॥१८॥ आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा। महामोहावृतमनाः पश्यन्नपि न पश्यति ॥ १६ ॥ अयोगमतियोगं वा शरीरे मतिमान् भिषक् । खादीनां युगपद दृष्टा भेषजं नावचारयेत् ॥ २० ॥
मास्ति। ऊोक्षश्च सन् अनिमिषेक्षणः अनिमिषेण दृष्टिशीलश्च सन् कालान् दिवारात्रिरूपान् स्मयते विस्मयीभवति। असच वस्तु किञ्चित् यत् तत्र तत्र नास्ति तत तत्र तत्रासीदिति मला मोहेन शयनात शय्यायाम आसनादासने तथाङ्गात् स्वकीयाले काष्ठात् कुड्यात् काष्ठकुड्यादिषु च मृगयते अन्वेषणं कुरुते, स कालचोदितो मरणकालप्रेरितभाववान् ॥ १७ ॥
गङ्गाधरः-अहास्येत्यादि । यो नरो संमुह्यन् मदमुग्ध इव सन् अहास्यहासी हास्यविषयासत्त्वे हासशीलः, दशनच्छदावोष्ठी लेढ़ि, यश्च शीतपादकरोछासश्च स न जीवति ॥ १८ ॥
गङ्गाधरः--आह्वयंस्तमित्यादि। यो नरः समीपस्थं स्वजनं स्वजनभिन्म जनमेव वा आह्वयंस्तं स्वजनं जनं वा महामोहातमनाः सन् पश्यन्नपि न पश्यति परिचयशीलो न भवति, स न जीवतीति पूवेणान्वयः ॥ १९ ॥
मङ्गाधरः-अयोगमित्यादि । खादीनामाकाशादीनां शब्दादिमतां विषयाणां सद्भावेऽपि श्रोत्रादिभिरयोगो यदा तदैव श्रोत्रस्पर्शनेन्द्रियादिभिरतियोग इति युगपदाकाशादीनां स्पर्शन्द्रियाद्ययोगातियोगी शरीरे दृष्ट्वा मतिमान् भिषक् भेषज न कारयेत् ॥२०॥
प्रार्थयते । स्मयते विस्मितो भवति । ऊर्द्धगम् अनिमिषञ्च ईक्षणं यस्य स तथा सन् मृगयते । अविद्यमानं शयनासनादि मृगयते प्रार्थयते ॥ १७ ॥ - चक्रपाणि:-अहास्यहासी इति अहास्यविषये हास्यवान् । दशनच्छदौ ओष्ठौ। 'शीत'. शब्दः उच्छासान्तैः संबध्यते। जनमिति गोबलीवईन्यायेनास्वजनम् । खादीनामिति खादि. कार्याणां श्रोत्रादीनां योग्यविषयाग्रहणमयोगः ॥ १८-२० ॥
For Private and Personal Use Only

Page Navigation
1 ... 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100