SearchBrowseAboutContactDonate
Page Preview
Page 1072
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२३४ चरक-संहिता। । अणुज्योतीयेन्द्रिय अहास्यहासी संमुह्यन् यो लेढि दशनच्छदो। शीतपादकरोच्छासो यो नरो न स जीवति ॥१८॥ आह्वयंस्तं समीपस्थं स्वजनं जनमेव वा। महामोहावृतमनाः पश्यन्नपि न पश्यति ॥ १६ ॥ अयोगमतियोगं वा शरीरे मतिमान् भिषक् । खादीनां युगपद दृष्टा भेषजं नावचारयेत् ॥ २० ॥ मास्ति। ऊोक्षश्च सन् अनिमिषेक्षणः अनिमिषेण दृष्टिशीलश्च सन् कालान् दिवारात्रिरूपान् स्मयते विस्मयीभवति। असच वस्तु किञ्चित् यत् तत्र तत्र नास्ति तत तत्र तत्रासीदिति मला मोहेन शयनात शय्यायाम आसनादासने तथाङ्गात् स्वकीयाले काष्ठात् कुड्यात् काष्ठकुड्यादिषु च मृगयते अन्वेषणं कुरुते, स कालचोदितो मरणकालप्रेरितभाववान् ॥ १७ ॥ गङ्गाधरः-अहास्येत्यादि । यो नरो संमुह्यन् मदमुग्ध इव सन् अहास्यहासी हास्यविषयासत्त्वे हासशीलः, दशनच्छदावोष्ठी लेढ़ि, यश्च शीतपादकरोछासश्च स न जीवति ॥ १८ ॥ गङ्गाधरः--आह्वयंस्तमित्यादि। यो नरः समीपस्थं स्वजनं स्वजनभिन्म जनमेव वा आह्वयंस्तं स्वजनं जनं वा महामोहातमनाः सन् पश्यन्नपि न पश्यति परिचयशीलो न भवति, स न जीवतीति पूवेणान्वयः ॥ १९ ॥ मङ्गाधरः-अयोगमित्यादि । खादीनामाकाशादीनां शब्दादिमतां विषयाणां सद्भावेऽपि श्रोत्रादिभिरयोगो यदा तदैव श्रोत्रस्पर्शनेन्द्रियादिभिरतियोग इति युगपदाकाशादीनां स्पर्शन्द्रियाद्ययोगातियोगी शरीरे दृष्ट्वा मतिमान् भिषक् भेषज न कारयेत् ॥२०॥ प्रार्थयते । स्मयते विस्मितो भवति । ऊर्द्धगम् अनिमिषञ्च ईक्षणं यस्य स तथा सन् मृगयते । अविद्यमानं शयनासनादि मृगयते प्रार्थयते ॥ १७ ॥ - चक्रपाणि:-अहास्यहासी इति अहास्यविषये हास्यवान् । दशनच्छदौ ओष्ठौ। 'शीत'. शब्दः उच्छासान्तैः संबध्यते। जनमिति गोबलीवईन्यायेनास्वजनम् । खादीनामिति खादि. कार्याणां श्रोत्रादीनां योग्यविषयाग्रहणमयोगः ॥ १८-२० ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy