________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अध्यायः
इन्द्रियस्थानम्।
२२३३ ग्रीवामदों न बलवान् जिह्वाश्वयथुरेव च । ब्रह्मास्यगलपाकश्च यस्य पक्वं तमादिशेत् ॥ १४ ॥ संभ्रमोऽति प्रलापोऽति पर्वभेदश्च दारुणः। कालपाशपरीतस्य त्रयमेतत् प्रवर्तते ॥ १५ ॥ प्रमुह्योल्लुञ्चयेत् केशान् परान् गृह्णात्यतीव च । नरः स्वस्थवदाहार-वचनः कालचोदितः॥ १६ ॥ समीपे चनुषः कृत्वा मृगयेताङ्ग लीकरम् । स्मयतेऽपि च कालांश्च ऊ क्षोऽनिमिषेक्षणः॥ शयनादाप्सनादङ्गात् काष्ठात् कुड्यादथापि च ।
असन्मृगयते किश्चित् स मुह्यन् कालचोदितः ॥ १७॥ वसन्तनामिका व्याधिः उत्पद्याशु विलीयन्ते लयमापद्यन्ते, स नचिरात् शीघ्र विनश्यति ॥ १३ ॥
गङ्गाधरः-ग्रीवेत्यादि। यस्य ग्रीवामी ग्रीवाग्रहः। न बलं वास्ति जिह्वाश्वयथुश्च आस्यगलपाकश्च तं बुद्धा पक्वं आयुषोऽन्तत्वेन परिणतम् आदिशेत् ॥१४॥
गङ्गाधरः-सम्भ्रम इत्यादि । सम्भ्रमोऽतिशयेन भ्रान्तिः । त्रयमेतन्मिलितं कालपाशपरीतस्य (कालपकशरीरस्य ) आयुषः परिशेषाभाववतो नरस्य प्रवर्तते ॥१५॥
गङ्गाधरः-प्रमुहोत्यादि। कालचोदित आयुषः कालपरिणामेन चोदितः प्रेरितो नरः प्रमुह्य मुग्यो भूबा केशान् स्वकरेणोल्लुञ्चेत् उत्पाटयेत् एवं मुग्धो भूला अतीव च परान् गृह्णाति तथा यथा प्रायेण कष्टात् मुच्यन्ते। किन्तु स्वस्थवदाहारवचनश्च भवति ॥ १६ ॥
गङ्गाधरः-समीपे इत्यादिश्लोकद्वयम् । यो नरो मुह्यन मोहं प्राप्तः सन अज्ञान इव सन स्ववक्षुषः समीपे कृषा अङ्गुलीकरं मृगयते किमपि यत् तत्र आभासन्त इति प्रबालगुड़िकाभासाः। कालपाशपरीतस्येति शीघ्र मरिष्यतः। परिगृह्णाति स्वस्थवदाहारमिति योजना, अबलः सन् स्वस्थवदाहारमत्यर्थं करोतीत्यर्थः ॥ ११-१६॥
चक्रपाणिः--समीप इत्यादि। चक्षुःसमीपेऽङ्गुलीकरं कृत्वा तत् पश्यन् अङ्गुलिकरञ्च मृगयते
For Private and Personal Use Only