________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२३२
चरक संहिता । शरीरकम्पः संमोहो गतिर्वचनमेव च । मत्तस्येवोपलक्ष्यते यस्य मासं न जीवति ॥ ६॥ तोमूत्रपुरीषाणि यस्य मजन्ति चाम्भसि । समासात् खजनद्वेष्टा मृत्युवारिणि मज्जति ॥ १० ॥ हस्तपादं मुखञ्चोभे विशेषाद यस्य शुष्यतः । शूये वा विना देहात् स च मासाद विनयति ॥ ११ ॥ ललाटे वस्तिशीर्षे वा नीला यस्य प्रकाशते । राजी बालेन्दुकुटिला न स जीवितुमर्हति ॥ १२ ॥ प्रबालगुटिकाभासा यस्य गात्रे मसूरिकाः । उत्पद्याशु विलयन्ते नचिरात् स विनश्यति ॥ १३ ॥
For Private and Personal Use Only
[ अणुज्योतीयेन्द्रियम्
गङ्गाधरः - शरीरेत्यादि । यस्य मत्तस्य मदकरद्रव्यं भुक्तवतो मदेन यथा शरीर कम्पसम्मोहगतिवचनानि तथा उपलक्ष्यन्ते, स मासं न जीवति ॥ ९ ॥
गङ्गाधरः- रेत इत्यादि । यद्यपि नवमाध्याये निष्ठातञ्च पुरीषञ्चेत्यादिना रिष्टमिदमुक्तम्, तथाप्यत्र स्वजनद्वेष्टुवलक्षणमधिकमिति लक्षणान्तरमिदं न पुनरुक्तम् ।। १० ।
गङ्गाधरः - हस्तपादमित्यादि । यस्य हस्तपादं मुखञ्चेत्युभे विशेषाद् अङ्गान्तरमपेक्ष्यातिशयेन देहात् मध्यदेहाद्विना शुष्यतः देहो न शुष्यतीत्यर्थः, समासात् परं विनश्यति । यस्य च हस्तपादं मुखञ्चेत्युभे देहाद्विना विशेषात् श्येते शोफवती भवतः देहस्तु न शूनः स्यात्, स च मासात् परं विनश्यति ॥ ११ ॥
गङ्गाधरः - ललाटे इत्यादि । यस्य ललाटे वस्तिशीर्षे वा वालेन्दुकुटिला नीला राजी रेखा प्रकाशते उद्भवति, स जीवितुं नार्हति ॥ १२ ॥
गङ्गाधरः -- प्रबालेत्यादि । यस्य गात्रे प्रबालगुटिकाभासा मसूरिका लोके चक्रपाणिः - रेत इत्याद्यरिष्टम्, 'निष्पतञ्च पुरीषम्' इत्यादिना यद्यप्युक्तम्, तथापी समासवचनात् समुदितानामेव रेतःप्रभृतीनां मज्जनं स्वजनद्वपे सति मारकं भवतीति ज्ञेयम् ॥ ९॥१० ॥
चक्रपाणिः -- 'उभे' इति वचनं मुखात् हस्तादिशोषमिति दर्शयति । प्रबालकृत गुड़िकावत्