________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अध्याय
इन्द्रियस्थानम् ।
२२३१ विकृत्या विनिमित्तं यः शोभामुपचयं धनम् । प्राप्नोत्यतो वा विभ्रशं समान्तं तस्य जोवितम् ॥ ५॥ भक्तिः शोलं स्मृतिस्त्यागो बुद्धिर्बलमहेतुकम् । षड़े तानि निवर्तन्ते षड्भिर्मासैमरिष्यतः ॥६॥ धमनीनामपूर्वाणां जालमत्यर्थशोभनम् । ललाटे दृश्यते यस्य षभिर्मासमरिष्यति ॥७॥ लेखाभिश्चन्द्रवकाभिर्ललाटमुपचीयते।
यस्य तस्यायुषः षड़ भिर्मासैरन्तं समादिशेत् ॥८॥ नक्षत्रसमीपस्थामरुन्धतीं तन्नामर्शद्रतमनक्षत्रं यो न पश्यति, स जन्तुः संवत् सरान्तरे महत् तमो यमालयं पश्यति ॥४॥
गङ्गाधरः-विकृत्येत्यादि। विनिमित्तं शोभोपचयधनलाभसूचकं स्वाभाविकं शरीरसम्बन्धि रेखाचिह्नादिकं लक्षणं विना विकृत्या विकारण तत्तच्छोभादिमूचकं चिह्न यः प्रामोति अतः शोभोपचयधनचिह्नाद वा विभ्रंशं पामोति तस्य समान्तं वत्सरान्तपर्यन्तं जीवितम् ।। ५॥
गङ्गाधरः-भक्तिरित्यादि। षड़ भिर्मासैमरिष्यतः पुरुषस्य भत्त्यादिबलान्तानि षड़, एतानि अहेतुकं निवर्तन्ते। इति स्वभावविप्रतिपत्तिः॥६॥
गङ्गाधरः-धमनीनामित्यादि। यस्य पूर्व यादृशीनां धमनीनां जालं वर्तते तद्विपय्ययेण धमनीनां जालमत्यथशोभनं ललाटे दृश्यते, स षड़ भिसिमरिष्यति ॥७॥ __गङ्गाधरः-लेखाभिरित्यादि। यस्य ललाटं चन्द्रवकाभिद्वितीयातृतीयाभ्युदितचन्द्र इव वक्राभिलेखाभिवतीभिरुपचीयते वृध्यते, तस्य नरस्यायुषः अन्तं शेषं षड़ भिर्मासैद्यः समादिशेत् ॥ ८॥ विकृत्येति प्रसिद्धं धनादिकारणं विना। विनिमित्तमिति शरीरसम्बन्धधनादिसूचकलक्षणं विना कस्मिंश्च काले धनादि तदुपचयो वा भवति, तच्चानिमित्तलक्षणत्वादरिष्टं प्रथमाध्याय एवोक्तम् । उपचयमिति शरीर एवोपचयम्। अतो विभ्रंशमिति शोभाद्यभावम् ॥३-५॥
चक्रपाणिः-भक्तिरिच्छा। अहेतुकमिति क्रियाविशेषणम्। संख्येयनिर्देशादेव पटत्वं प्राप्त पुमः 'षड़' इति पदं षण्णां समुदितानामेव निर्वृत्तिररिष्टमिति दर्शयितुम् । जालमिति जालाकारम् । चन्द्रवकाभिरिति बालचन्द्रवक्राभिः ॥६-८॥
For Private and Personal Use Only