________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशोऽध्यायः। अथातोऽणुज्योतीयमिन्द्रियं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ अणज्योतिरनेकायो दुश्छायो दुर्मानाः सदा। रतिं न लभते गन्ता परलोकं समान्तरे ॥२॥ बलिं बलिभुजो यस्य प्रणीतं नोपभुञ्जते। लोकान्तरगतः पिण्डं भुङ्क्ते संवत्सरेण सः॥३॥ सप्तर्षीणां समीपस्थां यो न पश्यत्यरुन्धतीम् ।
संवत्सरान्तरे जन्तुः स पश्यति महत् तमः॥ ४ ॥ गङ्गाधरः-अथ सद्योमरणीयेन्द्रियानन्तरं छायाधिकाराद्धेतोरणुज्योतीयम् अणुज्योतिरिति पदमधिकृत्य कृतमिन्द्रियं व्याख्यास्यामः॥१॥
गङ्गाधरः-अणुज्योतिरित्यादि। समान्तरे संवत्सरानन्तरं परलोकं गन्ता गमनशीलः पुरुषः। अणु ज्योतिः सर्वशरीरगतं तेजः, अल्पो वा जठराग्निर्यस्य सोऽणुज्योतिः। अनेकाग्रो नानाविधतया व्याकुलचित्तः, न एकाग्र इत्यर्थः। दुश्छायोऽशोभमानच्छविः । दुर्माना दुष्टं दुःखितं वा मनो यस्य सः। तेनानेकाग्र इत्यनेन न पौनरुक्त्यम् । रतिम् अवस्थितचित्तत्वं न लभते ॥२॥
गङ्गाधरः-बलिमित्यादि। यस्य निमित्तं प्रणीतं कल्पितं बलिं भोज्यं बलिभुजः काका नोपभुञ्जते, स संवत्सरेण लोकान्तरगतः सन् पिण्डं भुङ्क्ते ॥३॥
गङ्गाधरः-सप्तर्षीणामित्यादि। स्वर्मा, गगनोपरि वसिष्ठादिसप्तर्षिनामचक्रपाणिः-सद्यःकालनियतं रिष्टमभिधाय कालविशेषनियतारिष्टाभिधायकमणुज्योतीयमुच्यते। अणुज्योतिश्चेह यथाश्रुतं रोगं वर्जयित्वा संज्ञायामनुक्रियते, ज्योतिः सकलशरीरान्तर्गतं तेजः, अणुज्योतिर्मन्दाग्निः। अनेकाग्रो व्याकुलचित्तः । दुर्मना इत्यनेन मनोदौर्बल्यमित्युच्यते, तेन न पौनरुक्तम् । समान्तरमिति समामध्ये ॥ १२ ॥
चक्रपाणि:-बलिमिति वायसानां विधिवदत्तमन्नम्। महत् तम इति मरणरूपं तमः ।
For Private and Personal Use Only