________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
इन्द्रियस्थानम् ।
२२३५ अतिप्रवृद्धया दोषाणां मनसश्च बलक्षयात् । वासमुत्स्सृजति क्षिप्र शरीरी देहसंज्ञकम् ॥ २१ ॥ वर्णस्वरावग्निबलं वागिन्द्रियमनोबलम् । हीयतेऽसुक्षये निद्रा नित्या भवति वा न वा ॥ २२ ॥ भिषगभेषजपानान्नगुरुमित्रद्विषश्च ये। वशगाः सर्व एवैते बोद्धव्याः समवर्तिनः॥ एतेषु रोगः क्रमते भेषजं प्रतिहन्यते । नैषामन्नानि भुञ्जीत न चोदकमपि स्पृशेत् ॥ २३ ॥
गङ्गाधरः-अतीत्यादि। शरीरी आत्मा दोपाणामतिपटद्धया मनसो घलक्षयाच देहसंज्ञकं वासं वसतिस्थानं क्षिप्रमुत्सृजति ॥ २१॥
गङ्गाधरः--तत्रापि कारणान्तरमाह-वर्णेत्यादि। वर्णश्च स्वरश्चाग्निबलश्च वाचामिन्द्रियाणां मनसश्च बलञ्चेति सर्व नृणामसुक्षये हीयते। निद्रा च नित्या अविरता वा भवति नैव वा भवति ॥ २२ ॥
गङ्गाधरः-भिषगित्यादि। ये भिपगादिकानामेकग्रादीनां द्वेष्टार एते सर्व एव नराः समवर्तिनो यमस्य वशगा बोद्धव्याः। भिषगादिद्वेषिणां दोषम् आह- एतेष्वित्यादि। एतेषु भिषगादिद्वेषिषु रोगः क्रमते आक्रमते वर्द्धते इत्यर्थः। सम्यक् कृतमपि भेषनं प्रतिहन्यते भेषजेन रोगो न हन्यते, रोगेण
चक्रपाणिः-वासमिव वासं शरीरमात्मनो गृहमिव भवति। न वा भवतीति सर्वथा न भवतीत्यर्थः ॥ २१॥२२॥
चक्रपाणिः-समवर्त्तिन इति यमस्य । अन्ये तु 'समवर्तिन्'शब्देन कालमृत्यु ब्रुवते । 'च'शब्देनोक्तवक्ष्यमाणसकलारिष्टग्रहणं कुर्वन्ति । तेन सर्वमेव रिष्टं कालमृत्योः परं भवतीति रिष्टं वर्णयन्ति। अत्र द्वपमनु रोगक्रमणम्, निष्फलो भेषजप्रयोगश्चापि स्वादित्याह
For Private and Personal Use Only