Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११श अध्यायः
इन्द्रियस्थानम्।
२२३७ तत्र श्लोकः । क्रियापथमतिक्रान्ताः केवलं देहमाप्लुताः। दोषा यत् कुर्वते चिह्न तदरिष्टं निरुच्यते ॥ २६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने अण
ज्योतीयेन्द्रियं नामैकादशोऽध्यायः॥११॥ गङ्गाधरः-नन्वरिष्टं किं तावदित्यत आह-तत्र श्लोक इति । क्रियापथमित्यादि। दोषा वातादयः क्रियापथं चिकित्साक्रियायाः पन्थानम् आरोग्यलक्षणफलोदयजननव्यापारोपायमतिकान्ता उल्लङ्घ्य केवलं कृत्रनं देहम् आप्लुता आप्लाव्य यचिह्न कुर्चते, तचिह्नमरिष्टं निरुच्यते। तदेव नियतमरणाख्यापकं लिङ्गमिति बोध्यम् ॥ २६ ॥ अध्यायं समापयति-अग्नीत्यादि । इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ
इन्द्रियस्थानजल्पे पञ्चमस्कन्धेऽणुज्योतीयेन्द्रिय
___ जल्पाक्षेत्रकादशी शाखा ॥ ११॥ चक्रपाणिः-रिष्टलक्षणमाह-क्रियापथमतिक्रान्ता इत्यादि। आप्लुता इति गताः । दूतादिगतरिष्टलक्षणमेतन्न भवति, किन्तु शरीररिष्टलक्षणम् । तेन व्याप्तिलक्षणस्य वाच्या। सर्वरिष्टव्यापकन्तु लक्षणम्, यथा-अन्तर्गतस्य लिङ्गमिति, तच्च 'इन्द्रिय पदेनैवोक्तमिति । प्रथमाध्याय एव 'इन्द्रिय'पदव्याख्या प्रोक्ता। ननु निर्निमित्तं रिष्टमित्युक्तम्, इह दोषजन्यत्वं रिष्टानामुच्यत इति न कथं विरोधः ? निर्निमित्तत्वं झनुपलभ्यमाननिमित्तता, तस्मान्न विरोधः ॥ २६ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्य्यटीकायाम् इन्द्रियस्थाने अणुज्योतीयेन्द्रियं
नामैकादशोऽध्यायः ॥११॥
For Private and Personal Use Only

Page Navigation
1 ... 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100