Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ अध्यायः
इन्द्रियस्थानम् ।
२२३६. ॐ समुदिश्यातुरं वद्यः सम्पादयितुमौषधम् । यतमानो न शक्नोति दुर्लभं तस्य जीवितम् ॥ ५॥ विज्ञातं बहुशः सिद्धं विधिवच्चावचारितम् । न सिध्यत्यौषधं यस्य नास्ति तस्य चिकित्सितम् ॥ ६॥ आहारमपि भुञ्जानो भिषजा सूपकल्पितम् । यः फलं तस्य नाप्नोति दुर्लभं तस्य जीवितम् ॥७॥ दूताधिकारे वक्ष्यन्ते लक्षणानि मुमूर्षताम् ।
यानि दृष्टा भिषक् प्राज्ञः प्रत्याख्यायादसंशयम् ॥८॥ गङ्गाधरः-समुद्दिश्येत्यादि। वैद्य आतुरं समुद्दिश्य यदातुरार्थम् औषध सम्पादयितुं प्रस्तुतं कत्तुं यतमानोऽपि अत्यर्थप्रयत्नवानपि प्रस्तुतं कत्तुं केनाप्यभावेन न शक्नोनि, तस्य जीवितं दुर्लभम् । कश्चिज्जीवति बहुकष्टेनेति भावः॥५॥
गङ्गाधरः -विज्ञातमित्यादि। वैद्य न बहुशो बहुधा विशातं सिद्धं दृष्टफलत्वेन यदौषधं बहुधा विशातं तदेवौषधं यस्यातुरस्य विधिवच्चावचारितं सेवितं कृतं किन्तु तदौषधं फलदत्वेन न सिध्यति चेत् तदा तस्य चिकित्सितं नास्ति, स मरिष्यतीत्यर्थः ॥६॥
गाधरः-आहारमित्यादि। यः पुरुषो भिषजा मृपकल्पितं शास्त्रविधिना युक्त्या शोभनमुपकल्पितमाहारं भुञ्जानो न तस्याहारस्य फलं तत्तद् यदीप्सितं तन्नामोति, तस्य जीवितं दुर्लभम् । कष्टेन कश्चिज्जीवतीति भावः ॥ ७॥ ..
गङ्गाधरः-दृताधिकारे इत्यादि। प्रत्याख्यायादातुरमिति शेषः। सुश्रुतेऽप्युक्तम्-दृतदर्शनसम्भाषावेशश्चेष्टितमेव च। ऋशं वेलातिथिश्चैव निमित्तं शकुनोऽनिलः। देशो वैद्यस्य वाग्देह-मनसाश्च विचेष्टितम् । कथयन्त्यातुरगतं शुभं वा यदि वाशुभम् ॥ इति ॥८॥
चक्रपाणिः-यमुद्दिश्येति यस्यार्थे। सिद्धमित्यनेन रूपेण बहुशो ज्ञातम्। आहारम् इत्याद्यरिष्टं रोगविषयम् । तेन 'इष्टञ्च गुणसम्पन्नम्' इत्यादिग्रन्थोक्तेन स्वस्वविपयेणारिष्टेन समं न पोनरुक्काम् ॥ ५-८॥
* यमुद्दिश्य इति चक्रवर्णितः पाठः ।
For Private and Personal Use Only

Page Navigation
1 ... 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100