Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४०
चरक-संहिता। गोमयचूर्णीयमिन्द्रियम् मुक्तकेशेऽथवा नग्ने रुदत्यप्रयतेऽथवा।। भिषगभ्यागतं दृष्टा दूतं मरणमादिशेत् ॥ सुप्ते भिषजि ये दूताश्छिन्दत्यपि च भिन्दति। आगच्छन्ति भिषक तेषां न भर्तारमनुव्रजेत् ॥६॥ जुह्वत्यग्निमथो पिण्डान् पितृभ्यो निर्बपत्यपि । वैद्य दूता य आयान्ति प्रन्ति प्रतिजिघांसवः ॥ १०॥ गङ्गाधरः-मुक्तकेशे इत्यादि। भिषक् स्वस्मिन् मुक्तकेशे सति अथवा नग्ने विवस्त्रे सति किंवा रुदति सति अथ वाप्यप्रयतेऽशुचौ सति । मरणाद्यशौचन्तु नापयतं, तदात्वे हि तदेव प्रयतम्। इत्यतो विस्पर्शाद्यपवित्रे सति यस्यातुरस्य चिकित्सामुद्दिश्य स्वस्याहानार्थ स्वमभिलक्ष्य आगतं दूतं दृष्ट्वा तस्यातुरस्य मरणमादिशेत्। मुप्त इत्यादि। भिषजि स्वस्मिन् सुप्ते निद्रिते सति अथवा किमपि च्छिन्दति सति किंवा किमपि भिन्दति सति ये दूता यस्यातुरस्य चिकित्सार्थ स्वमाहयितुमागच्छन्ति तस्य भर्तारं तमातुरं चिकित्सितु भिषड् नानुव्रजेत् ॥९॥
गङ्गाधरः-जुह्वतीत्यादि। वैद्य जुह्वति अग्निं प्रज्वालयति अग्निं प्रज्वाल्य होमं वा कुर्वति तण्डुलादिकं पचति वा सति, पिण्डान् पितृभ्यो निर्बपति वा सति ये दृता वैद्यमाहयितुमायान्ति ते प्रतिजिघांसवो दस्यव इव तमातुरं प्रन्ति । सुश्रुतेऽप्युक्तम्-दक्षिणाभिमुखं देशन्वशुचौ वा हुताशनम् । ज्वालयन्तं पचन्तं वा क्रूरकर्माणि चोद्यतम् । नग्न भूमौ शयानं वा वेगोत्सर्गेषु वाऽशुचिम् । प्रकीर्णकेशमभ्यक्तं खिन्नं विक्लवमेव च। वैद य उपसपेन्ति दूतास्ते चापि गर्हिताः। बैद्यस्य पैत्रे दैवे वा काय्ये चोत्पातदर्शने ॥ इति ॥१०॥
चक्रगणि:--अप्रयत इति अपवित्रे। सुप्त इत्यादि। न भर्तारमिति न दूतप्रेषकमातुरम इत्यर्थः। न प्रजिघांसवश्च भवन्ति, न च शक्तया दूता प्रन्ति, अथो प्रजिघांसवो वन्तीति चोक्तम् । दूताश्च यद्यपि रोगिहितमिच्छन्ति, तथापि यथातुरस्य विनाशो भवति तथा दैवप्रेरिताः सन्तः आगच्छन्तो दृताः प्रजिघांसव इव तथा धन्तीवेति कृत्वा प्रजिघांसवो घन्तीत्युच्यते। तेन 'इव'. शब्दो लुप्तनिर्दिष्टो द्रष्टव्यः ।। ९।१० ॥ • ते घन्ति प्रजिघांसवः इति चक्रः ।
For Private and Personal Use Only

Page Navigation
1 ... 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100