Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२श अध्यायः
इन्द्रियस्थानम् ।
तत्पूर्वदर्शने दूता व्याहरन्ति मुमूर्षताम् । यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम् । पश्यन् निमित्तमशुभं तञ्च नानुव्रजेद्भिषक् ॥ १८ ॥ तथा व्यसनिनं प्रतं प्र ेतालङ्कारमेव वा । भिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२२४३
लोके । युयं तण्डुलहीनधान्यम् । द्विजा दन्ताः । मार्ज्जनी गृहसानी। सू कुला इति लोके । मुषलं प्रसिद्धम् । उपानञ्चर्म्मपादुका तस्या भग्नविच्युते चर्मणी तृणादीनि लोट्राइमनी च स्पृशन्तं दूतं दृष्ट्रा भिषग् ब्रुयादातुरस्य पराभवमिति पूर्वेणान्वयः । सुश्रुतेऽप्युक्तम्- - पाशदण्डायुधधराः पाण्डरेतरवाससः । आर्द्रजीर्णापसव्यैक-मलिनध्वस्तवाससः । न्यनाधिकाङ्गा उद्विग्ना विक्रेता रौद्ररूपिणः । रुक्षनिष्ठुरवादाश्राप्यमाङ्गयाभिधायिनः । छिन्दन्तस्तृणकाष्ठानि स्पृशन्तो नासिकां स्तनम् । वखान्तानामिकाकेशनखरोमदशास्पृशः । स्रोतोऽवरोध गण्डमूर्द्धारः कुक्षिपाणयः । कपालोपलभस्मास्थि-उपाङ्गारकराच ये। विलिखन्तो महीं किञ्चित् मुञ्चन्तो लोष्ट्रभेदिनः । तैलकर्द्दमदिग्धाङ्गा रक्तस्रगनुलेपनाः । फलं पकमसारं वा गृहीत्वान्यच्च तद्वियम् । नखैर्नखान्तरं वापि करेण चरणं तथा । उपानच्चहस्ता वा विकृतव्याधिपीड़िताः । वामाचारा रुदन्तश्च श्वासिनो विकृतेक्षणाः । याम्यां दिशं प्राञ्जलयो विषमैकपदे स्थिताः । वैद्य य उपसर्पन्ति दूतास्ते चापि गर्हिताः ॥ इति ॥ १७ ॥
गङ्गाधरः- तत्पूर्व्वदर्शने इत्यादिना दूतम्भाषां दर्शयति । तत्पूर्व्वदर्शने पूर्व वैद्यदर्शने मुमूषेतामातुराणां दूता इति व्याहरन्ति भाषन्ते । किं व्याहरन्ति तदाह - यस्मिन्नित्यादि । यस्मिन् दृते आतुरसंश्रयं वाक्यं ब्रुवति सति तत्कालप्रशुभं निमित्तं पश्यन् भिक् तमातुरं नानुव्रजेत् ॥ १८ ॥
गङ्गाधरः- तत्कालमशुभं निमित्तं किं किमित्यतस्तदाह - तथेत्यादि । व्यसनिनं प्रेतं वा मृतं वा प्रेतालङ्कारं वा भिन्नं वा किमपि दग्धं वा किमपि छिन्ननासादिः । उग्रकर्म्मा मारणाद्य कार्यप्रवृत्तः । पलालेत्यादौ तृणकाष्ठादिपरिस्पृशो दूताः । तत्पूर्वदर्शन इति वैद्यपूर्व्वदर्शने पलालकुषादीनि स्पृशन्तो व्याहरन्तीति योजना । प्रेतालङ्कारम्

Page Navigation
1 ... 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100