Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1070
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२३२ चरक संहिता । शरीरकम्पः संमोहो गतिर्वचनमेव च । मत्तस्येवोपलक्ष्यते यस्य मासं न जीवति ॥ ६॥ तोमूत्रपुरीषाणि यस्य मजन्ति चाम्भसि । समासात् खजनद्वेष्टा मृत्युवारिणि मज्जति ॥ १० ॥ हस्तपादं मुखञ्चोभे विशेषाद यस्य शुष्यतः । शूये वा विना देहात् स च मासाद विनयति ॥ ११ ॥ ललाटे वस्तिशीर्षे वा नीला यस्य प्रकाशते । राजी बालेन्दुकुटिला न स जीवितुमर्हति ॥ १२ ॥ प्रबालगुटिकाभासा यस्य गात्रे मसूरिकाः । उत्पद्याशु विलयन्ते नचिरात् स विनश्यति ॥ १३ ॥ For Private and Personal Use Only [ अणुज्योतीयेन्द्रियम् गङ्गाधरः - शरीरेत्यादि । यस्य मत्तस्य मदकरद्रव्यं भुक्तवतो मदेन यथा शरीर कम्पसम्मोहगतिवचनानि तथा उपलक्ष्यन्ते, स मासं न जीवति ॥ ९ ॥ गङ्गाधरः- रेत इत्यादि । यद्यपि नवमाध्याये निष्ठातञ्च पुरीषञ्चेत्यादिना रिष्टमिदमुक्तम्, तथाप्यत्र स्वजनद्वेष्टुवलक्षणमधिकमिति लक्षणान्तरमिदं न पुनरुक्तम् ।। १० । गङ्गाधरः - हस्तपादमित्यादि । यस्य हस्तपादं मुखञ्चेत्युभे विशेषाद् अङ्गान्तरमपेक्ष्यातिशयेन देहात् मध्यदेहाद्विना शुष्यतः देहो न शुष्यतीत्यर्थः, समासात् परं विनश्यति । यस्य च हस्तपादं मुखञ्चेत्युभे देहाद्विना विशेषात् श्येते शोफवती भवतः देहस्तु न शूनः स्यात्, स च मासात् परं विनश्यति ॥ ११ ॥ गङ्गाधरः - ललाटे इत्यादि । यस्य ललाटे वस्तिशीर्षे वा वालेन्दुकुटिला नीला राजी रेखा प्रकाशते उद्भवति, स जीवितुं नार्हति ॥ १२ ॥ गङ्गाधरः -- प्रबालेत्यादि । यस्य गात्रे प्रबालगुटिकाभासा मसूरिका लोके चक्रपाणिः - रेत इत्याद्यरिष्टम्, 'निष्पतञ्च पुरीषम्' इत्यादिना यद्यप्युक्तम्, तथापी समासवचनात् समुदितानामेव रेतःप्रभृतीनां मज्जनं स्वजनद्वपे सति मारकं भवतीति ज्ञेयम् ॥ ९॥१० ॥ चक्रपाणिः -- 'उभे' इति वचनं मुखात् हस्तादिशोषमिति दर्शयति । प्रबालकृत गुड़िकावत्

Loading...

Page Navigation
1 ... 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100