Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1061
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९म अध्यायः ] इन्द्रियस्थानम् । श्रथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपाततः । रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम् ॥ मासेन चेन्न दृश्येत विशेषस्तस्य शोभनः । रसैश्चान्यैर्बहुविधैर्दुर्लभं तस्य जीवितम् ॥ १३ ॥ निष्ठप्रतञ्च पुरीषञ्च रेतश्चाम्भसि मज्जति । यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः ॥ १४ ॥ Acharya Shri Kailassagarsuri Gyanmandir २२२३ कष्टेनेति संशयप्राप्तमित्यनेन ख्यापितम् । तदाह अथ चेदित्यादि । वैदेवन प्रत्याख्यानानन्तरं चेद्यदि तस्य ज्ञातयो भ्रात्राद्यमात्यगणाः प्रणिपाततोऽस्य चिकित्सार्थं याचेरन्, तदा रसेन मांसरसेन पुष्टार्थमद्यादिति वैद्यस्तान् शातिगणान् ब्रूयात् । न चास्मै दुर्बलाय सहसा रोगमुक्तये विशोधनं दद्यात् कर्षकत्वात् । ननु तेन किं स्यादित्यत आह-मासेनेत्यादि । चेद्यदि मांसरसेन मासमनादनेन तस्य दुर्बलस्य शोभनो विशेषः सुलक्षणयोगेन पूर्व्वभावाद्विशिष्टो भावो न दृश्यते, तदा बहुविधैरन्यं रसरदनेनापि तस्य जीवितं दुर्लभम् । यदि च मासेन मांसरसादनेन शोभनो विशेषो दृश्येत तदा सजीवेदिति मत्वा अन्यहुविधैः रसैरदनेन चिकित्सेदिति भावः ॥ १३ ॥ गङ्गाधरः- निष्ट्रातञ्चेत्यादि । निष्ठातं निष्ठीवनम् ॥ १४ ॥ For Private and Personal Use Only भाषमाणमित्याह -- मरणमात्मन इति । मरिष्यामि मरिष्यामीति भाषमाणमित्यर्थः । श्रोतारन्चे त्यादिरिष्टानन्तरं 'संशयप्राप्तमात्रेयः' इत्यादि अनियतारिष्टतया आत्रेयस्यात्र मरणं प्रति सन्देह ब्र ते, तत्र, नारिष्टस्य मरणाव्यभिचारित्वमाचाय्र्येण प्रयत्नेनोक्तम्, व्युत्पादितञ्चास्माभिः । किञ्च न च वीतसंशयस्यात्रेयस्य संशयोऽस्ति । तेन शिष्यव्युत्पत्त्यर्थमाचाय्र्यः संशयं दर्शयति, तथा निर्णय करोति । यथा "ड्डा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद् द्विविधो विचारः" इत्यादौ संशयं दर्शयित्वा निर्णयं दर्शितवान्, तथा अत्रापि दुब्र्बलस्येह रोगमुक्तौ रिष्टं वा स्यात् सर्व्वथा सन्तर्पणाद व्याधिक्षयो वा स्यादिति सन्देहः, अरिष्टपक्षे तु मरणम् । तत्र 'अथ चेत्' इत्यादिना परीक्षामारभते, परीक्षाच मासादिना विशेषादालभ्य रिष्टत्वावधारणं भवतीति सुव्यवस्थोऽयं ग्रन्थः । दुर्लभमित्यप्राप्यम् ॥ ९-१३ ॥

Loading...

Page Navigation
1 ... 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100