________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९म अध्यायः ]
इन्द्रियस्थानम् ।
श्रथ चेज्ज्ञातयस्तस्य याचेरन् प्रणिपाततः । रसेनाद्यादिति ब्रूयान्नास्मै दद्याद्विशोधनम् ॥ मासेन चेन्न दृश्येत विशेषस्तस्य शोभनः । रसैश्चान्यैर्बहुविधैर्दुर्लभं तस्य जीवितम् ॥ १३ ॥ निष्ठप्रतञ्च पुरीषञ्च रेतश्चाम्भसि मज्जति । यस्य तस्यायुषः प्राप्तमन्तमाहुर्मनीषिणः ॥ १४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
२२२३
कष्टेनेति संशयप्राप्तमित्यनेन ख्यापितम् । तदाह अथ चेदित्यादि । वैदेवन प्रत्याख्यानानन्तरं चेद्यदि तस्य ज्ञातयो भ्रात्राद्यमात्यगणाः प्रणिपाततोऽस्य चिकित्सार्थं याचेरन्, तदा रसेन मांसरसेन पुष्टार्थमद्यादिति वैद्यस्तान् शातिगणान् ब्रूयात् । न चास्मै दुर्बलाय सहसा रोगमुक्तये विशोधनं दद्यात् कर्षकत्वात् । ननु तेन किं स्यादित्यत आह-मासेनेत्यादि । चेद्यदि मांसरसेन मासमनादनेन तस्य दुर्बलस्य शोभनो विशेषः सुलक्षणयोगेन पूर्व्वभावाद्विशिष्टो भावो न दृश्यते, तदा बहुविधैरन्यं रसरदनेनापि तस्य जीवितं दुर्लभम् । यदि च मासेन मांसरसादनेन शोभनो विशेषो दृश्येत तदा सजीवेदिति मत्वा अन्यहुविधैः रसैरदनेन चिकित्सेदिति भावः ॥ १३ ॥
गङ्गाधरः- निष्ट्रातञ्चेत्यादि । निष्ठातं निष्ठीवनम् ॥ १४ ॥
For Private and Personal Use Only
भाषमाणमित्याह -- मरणमात्मन इति । मरिष्यामि मरिष्यामीति भाषमाणमित्यर्थः । श्रोतारन्चे त्यादिरिष्टानन्तरं 'संशयप्राप्तमात्रेयः' इत्यादि अनियतारिष्टतया आत्रेयस्यात्र मरणं प्रति सन्देह ब्र ते, तत्र, नारिष्टस्य मरणाव्यभिचारित्वमाचाय्र्येण प्रयत्नेनोक्तम्, व्युत्पादितञ्चास्माभिः । किञ्च न च वीतसंशयस्यात्रेयस्य संशयोऽस्ति । तेन शिष्यव्युत्पत्त्यर्थमाचाय्र्यः संशयं दर्शयति, तथा निर्णय करोति । यथा "ड्डा प्रमेहं मधुरं सपिच्छं मधूपमं स्याद् द्विविधो विचारः" इत्यादौ संशयं दर्शयित्वा निर्णयं दर्शितवान्, तथा अत्रापि दुब्र्बलस्येह रोगमुक्तौ रिष्टं वा स्यात् सर्व्वथा सन्तर्पणाद व्याधिक्षयो वा स्यादिति सन्देहः, अरिष्टपक्षे तु मरणम् । तत्र 'अथ चेत्' इत्यादिना परीक्षामारभते, परीक्षाच मासादिना विशेषादालभ्य रिष्टत्वावधारणं भवतीति सुव्यवस्थोऽयं ग्रन्थः । दुर्लभमित्यप्राप्यम् ॥ ९-१३ ॥