________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२२
चरक-संहिता। [यस्यश्यावनिमित्तीयमिन्द्रियम् पेयं पातुन शक्नोति शुष्कत्वादास्यकण्ठयोः। उरसश्च विवन्धत्वाद् यो नरो न स जीवति ॥६॥ स्वरस्य दुर्बलीभावं हानिश्च बलवर्णयोः । रोगवृद्धिमयुत्तया च ® दृष्टा मरणमादिशेत् ॥ १०॥ ऊई श्वासं गतोष्माणं शूलोपहतवङ्क्षणम् । शर्म चानधिगच्छन्तं बुद्धिमान् परिवर्जयेत् ॥ ११ ॥
अपस्वरभाषमाणं प्राप्तं मरणमात्मनः । श्रोतारश्चाप्यशब्दस्य दूरतः परिवर्जयेत् ॥ १२ ॥ यं नरं सहसा रोगो दुर्बलं परिमुञ्चति । संशयप्राप्तमात्रेयो जीवितं तस्य मन्यते ॥
गङ्गाधरः-पेयमित्यादि स्पष्टम् ॥ ९॥
गङ्गाधरः-स्वरस्येत्यादि। स्वरस्य दुर्बलीभावं स्वरक्षीणत्वं दृष्ट्वा बलवर्णयोहोनिश्च दृष्ट्वा अयुक्त्या युक्तिं विना अर्थादनुचितक्रमेण रोगद्धिश्च दृष्ट्वा सव्र्वषां रोगिणां मरणमादिशेत् ॥ १० ॥
गङ्गाधरः-ऊ त्यादि। गतोष्माणं नित्योष्मस्थानवक्षःशिरोजिहादिषु गतोऽतीत उष्मा यस्य तं तथा, शूलोपहतवङ्क्षणं वङ्क्षणदेशेऽतिशयशूलवन्तं शर्म च क्षणमपि नाधिगच्छन्तं सर्च रोगिणं बुद्धिमान् परिवज्जयेत् ॥ ११॥
गङ्गाधरः-अपस्वरेत्यादि। अपस्वरेण विकृतस्वरेण भाषमाणं नरम् आत्मनो मरणं प्राप्तं परिवजयेत्। अशब्दस्य शब्दाभावे सति शब्दस्य श्रोतारश्च परिवज्जयेदिति ॥ १२॥
गङ्गाधरः-यं नरमित्यादि। यं दुर्बलं रोगिणं नरं सहसा स रोगो मुश्चति तस्य जीवितं संशयप्राप्तमात्रेयो मन्यते कचित् कश्चिज्जीवति महा
चक्रपाणिः-अयुक्तेनेत्यनुचितरूपेण अपस्वरमिति विकृतस्वरं यथा भवति तथा भाषमाणम् । कि
* अयुक्तेनेति पाठान्तरम्।
+ अपस्वरं भाषमाणं इति चक्रतः पाठः ।
For Private and Personal Use Only