________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९म अध्यायः
इन्द्रियस्थानम्।
२२२१ शरीरान्ताश्च शोभन्ते शरीरञ्चोपशुष्यति । बलश्च हीयते यस्य राजयक्ष्मा हिनस्ति तम् ॥ ५॥ अंसाभितापो हिका च दर्शनं शोणितस्य च ।
आनाहः पार्श्वशूलञ्च भवत्यन्ताय शोषिणः ॥६॥ वातव्याधिरपस्मारी कुष्ठी रक्ती ® तथोदरी। गुल्मी च मधुमेही च राजयक्ष्मी च यो नरः॥ अचिकित्स्या भवन्त्येते बलमांसक्षये सति। मन्देष्वपि विकारेषु तान् भिषक् परिवर्जयेत् ॥७॥ विरेचनहतानाहो + यस्तृष्णानुगतो नरः। विरिक्तः पुनराधमाति यथा प्रतस्तथैव सः॥८॥ गङ्गाधरः-शरीरान्ताश्चेत्यादि। यस्य शरीरान्ता हस्तपादायन्तावयवाः शोभन्ते पुष्टिवणेप्रभादिभिः साधुभावा भनन्ति शरीरश्चान्तराधिर्मध्यकाय उपशुष्यति बलमपि च हीयते, तं राजयक्ष्मा हिनस्ति ॥५॥
गङ्गाधरः-अंसेत्यादि। यस्य शोषिणो राजयक्ष्मिणः अंसाभितापो भुजयोरूद्ध देशयोरुपतापः हिका च शोणितस्य रक्तस्य दर्शनञ्चानाहः पाश्वशूलभ, अन्ताय मरणाय स्यात् ॥६॥
गङ्गाधरः-वातव्याधिरित्यादि। वाताज्जातोऽसाधारणो नानात्मजो व्याधियस्य स तथा। रक्ती रक्तपित्ती। अचिकित्स्या असाध्याः। मन्देषु अल्पेष्वपि बलमांसक्षयेऽल्पदोषेष्वपि बहुदोषेषु सुतरां वातव्याध्यादीन परिवर्जयेत् ॥७॥
गङ्गाधरः-विरेचनेत्यादि। यो नरो विरेचनहतानाहः विरेचनेन हतो जित आनाहो यस्य स तृष्णानुगतो यदि विरिक्तः सन् पुनराधमाति वायुना पूर्णोदरो भवति, तदा स यथा प्रेतस्तथैव भवति ॥८॥
चक्रपाणिः-शरीरान्ता हस्तपादादयः। शोभन्त इति राजन्ते, किंवा शोभायुक्ता इव भवन्ति। वात एव व्याधिर्यस्य रोगिणः स वातव्याधिः। तानिति बलमांसक्षययुक्तान् । विरेचनहृत आनाहो यस्य स तथा ॥४-८॥ • शोफी इत्यन्यत्र पठ्यते।
+ विरेचनहृतानाह इति चक्रः ।
For Private and Personal Use Only