________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२२४
चरक-संहिता। [यस्यश्यावनिमित्तीथमिन्द्रियम् निष्ट्राते यस्य दृश्यन्ते वर्णा बहुविधाः पृथक् । तञ्च सीदेत् पयः प्राप्य न स जोवितुमर्हति ॥ १५ ॥ पित्तमुष्मानुगं यस्य शङ्खौ प्राप्य विशुष्यति । स रोगः शङ्कको नाम त्रिरात्राद्धन्ति मानवम् ॥ १६॥ सफेनं रुधिरं यस्य मुहास्यात् प्रसिच्यते । शूलश्च तुद्यते कुक्षिः प्रत्याख्येयः स तादृशः ॥ १७॥ बलमांसक्षयस्तीबो रोगवृद्धिररोचकः । यस्यातुरस्य लक्ष्यन्ते त्रीन् पक्षान न स जीवति ॥ १८॥
तत्र श्लोकः। विज्ञानानि मनुष्याणां मरणे प्रत्युपस्थिते ।
भवन्त्येतानि संपश्येदन्यान्येवंविधानि च ॥ गङ्गाधरः-निष्ट्यते इत्यादि । तच्च निष्ट्रातं पयो जलं प्राप्य सीदेत् गलितं स्यात् ॥१५॥
गङ्गाधरः-पित्तमित्यादिना शङ्खकस्यात्रारिष्टाधिकारखात् प्रदर्शनम् ॥१६॥ गङ्गाधरः--सफेनमित्यादि। स्पष्टम् ॥ १७ ॥ गङ्गाधरः-बलमांसेत्यादि ॥ १८॥
गङ्गाधरः-अध्यायार्थाशिषमाह-विज्ञानानीत्यादि। मनुष्याणामुपस्थित मरणं प्रति एतानि विज्ञानानि भवन्ति, एतानि संपश्येत्। एवं विधान्यन्यानि च उपस्थितमरणविज्ञानानि सम्यक् पश्येत्। साण्येवोपस्थितमरणविज्ञानानि मनुष्याणां भिषक् पश्येदिति भावः ।
चक्रपाणिः-निष्ट्रयत इत्यादौ बहुविधवर्णयोगः पूर्वारिष्टाविशेषः। सीदतीति मजति । 'पित्तम्' इत्यादिना सूत्रस्थानोक्तोऽपि शसक इह मरणसूचकतयारिष्टत्वेनोच्यते। विज्ञानानीति
For Private and Personal Use Only