________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९म अध्यायः ]
इन्द्रियस्थानम् ।
तानि सर्व्वाणि लक्ष्यन्ते न तु सर्व्वाणि मानवम् । विशन्ति विनशिष्यन्तं तस्माद बोध्यानि सर्वशः ॥ १६॥ इत्यग्निवेशने तन्त्रे चरकप्रतिसंस्कृते इन्द्रियस्थाने यस्य - श्या निमित्तीयमिन्द्रियं नाम नवमोऽध्यायः ॥ ६॥ ननु सर्व्वाण्येवारिष्टचिह्नानि, तहि किं सर्व्वानेव पुरुषान् प्रविशन्ति इत्यत आह-- तानीत्यादि । तानि उपस्थितमरणविज्ञानानि dahi रुषं प्रति लक्ष्यन्ते कानि कानि जातानि इति कृत्वा अवेक्ष्यन्ते, कानि कस्य भवन्तीति नियमाभावात् । न तु सर्व्वाणि मरणलिङ्गानि विनशिष्यन्तं मरिष्यन्तमेकं मानवं विशन्ति । तस्मात् प्रतिनियतलिङ्गाभावात् सव्र्व्वशः सर्व्वाण्येवैकैकं मानवं प्रति बोध्यानि भवन्तीत्यर्थः ॥ १९ ॥
अध्यायं समापयति- अग्नीत्यादि ।
Acharya Shri Kailassagarsuri Gyanmandir
2186
इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थान जल्पे पञ्चमस्कन्धे यस्पश्याव निमित्तीयेन्द्रिय जल्पाख्या नवमी शाखा ॥ ९ ॥ लक्षणानि नयनादिवैकृतानि ज्ञेयानि । सर्व्वाणि लक्ष्यन्त इति नाना पुरुषेषु लक्ष्यन्ते । सर्वाणि मानवं विशन्तीति न एकं पुरुषं सर्व्वाणि विशन्तीति ॥ १५ - १९ ॥
न तु
२२२५
इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् इन्द्रियस्थाने यस्यश्यावनिमित्तीयेन्द्रियं नाम नवमोऽध्यायः ॥ ९ ॥
For Private and Personal Use Only