SearchBrowseAboutContactDonate
Page Preview
Page 1064
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमोऽध्यायः । अथातः सद्योमरणीयमिन्द्रियं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १ ॥ सद्यस्तितिक्षतः प्राणान् लक्षणानि पृथक् पृथक् । अग्निवेश ! प्रवक्ष्यामि स स्पृष्टो यैर्न जीवति ॥ २ ॥ वाताष्ठीला सुसंवृत्ता तिष्ठन्ती दारुणा हृदि । तृष्णाभिपरीतस्य सद्यो मुष्णाति जीवितम् ॥ ३॥ पिण्डिके शिथिलीकृत्य जिह्मीकृत्य च नासिकाम् । वायुः शरीरे विचरन् सद्यो मुष्णाति जीवितम् ॥ ४ ॥ भ्रुवौ यस्य च्युते स्थानादन्तर्दाहश्च दारुणः । तस्य हिक्काकरो रोगः सद्यो मुष्णाति जीवितम् ॥ ५ ॥ गङ्गाधरः- अथ यस्यश्यावनिमित्तीयेन्द्रियानन्तरमतच्छायारिष्टप्रसङ्गात सद्योमरणीयं सद्योमरणमधिकृत्य कृतमिन्द्रियं व्याख्यास्याम इति ॥ १ ॥ गङ्गाधरः - सद्यस्तितिक्षत इत्यादि । प्राणान् सद्यस्तितिक्षतो वर्त्तमानशरीरेण भोग्यभोगात् सद्यः क्षान्तीकुर्व्वतः पुरुषस्य पृथक् पृथक् लक्षणानि प्रवक्ष्याम्यग्निवेश ! स यैर्लक्षणैः स्पृष्टो न जीवति ॥ २ ॥ गङ्गाधरः - वाताष्ठीलेत्यादि । दारुणा वाताष्ठीला हृदि वक्षसि सुसंवृत्ता सती तिष्ठन्ती तृष्णयाभिपरीतस्य जीवितं सद्यो मुष्णाति चोरयति ||३|| गङ्गाधरः - पिण्डिके इत्यादि । पुरुषस्य वायुः पिण्डिके जान्वधोमांसfuusai शिथिलीकृत्य नासिकाश्च जिह्मीकुत्य कुटिलीकृत्य शरीरे विचरन सद्यो जीवितं मुष्णाति ॥ ४ ॥ गङ्गाधरः - भ्रुवावित्यादि । यस्य यस्मिन् रोगे भ्रुवौ स्थानात् च्युते अधस्तानीचे भवतः, अन्तर्दाहश्च दारुणो भवति, स च रोगो यदि तस्य हिक्काकरः स्यात्, तदा तस्य जीवितं सद्यो मुष्णाति ॥ ५ ॥ चक्रपाणिः - व्यवहितमरणप्रतिपादकमरिष्टमभिधाय प्रत्यासन्नमरणप्रतिपादकरिष्टयुक्तः सद्योमरणीयोऽभिधीयते । 'सद्यः' शब्देनेह केचित् सप्तरात्रमिच्छन्ति, अपरे त्रिरात्रम् । तितिक्षत For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy