Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1067
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०म अध्याय ] इन्द्रियस्थानम् । २२२६ पक्वाशयमधिष्ठाय हत्वा संज्ञाश्च मारुतः । कण्ठे घुर्घरकं कृत्वा सद्यो हरति जीवितम् ॥ १६ ॥ दन्ताः कर्दमदिग्धाभा मुखं चूर्णकसंयुतम् । सिप्रायन्ते च गात्राणि लिङ्गं सद्यो मरिष्यतः॥ १७॥ तृष्णाश्वासशिरोरोग-मोहदौर्बल्यकूजनैः। स्पृष्टः प्राणान् जहात्याशु शकृदभेदेन चातुरः॥१८॥ तत्र श्लोकः। । एतानि खलु लिङ्गानि यः सम्यगवबुध्यते । स जीवितञ्च मानां मरणञ्चापि बुध्यते ॥ १६ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृत इन्द्रियस्थाने सद्यो मरणीयमिन्द्रियं नाम दशमोऽध्यायः॥ १०॥ .. गङ्गाधरः--पक्काशयत्यादि। मारुतः पक्काशयमधिष्ठाय सज्ञाश्च हला कण्ठे घुघुरकं शब्दं कृखा नरस्य प्राणान् सद्यो हरति ॥१६॥ गङ्गाधरः-दन्ता इत्यादि। सद्या मरिष्यतः पुरुषस्य लिङ्गं-दन्ताः कद्दमदिग्धाभा भवन्ति, मुखश्च चूर्णकसंयुतं शम्बूकशुक्तिकादिभस्मचूर्णयुक्तमिव भवति, गात्राणि च सिप्रायन्ते। सिप्रा नदी, सेवाचरन्ति स्वेदबाहुल्येन रोमाञ्चायन्ते वा इति ॥१७॥ गङ्गाधरः-तृष्णेत्यादि। आतुरो येन केनापि व्याधिना व्याधितस्तृष्णादिभिः स्पृष्टः शकृद्भदेन च स्पृष्टः आशु प्राणान् जहाति ॥१८॥ गङ्गाधरः-तत्र श्लोक इत्यादिनाशीरस्याध्यायस्य ॥१९॥ अध्यायं समापयति-अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नविरचिते चरकजल्पकल्पतरौ इन्द्रियस्थानजल्पे पञ्चमस्कन्धे सद्योमरणीयेन्द्रियजल्पाख्या दशमी शाखा ॥ १०॥ चक्रपाणिः-घुर्घरकमिति घुघुरकमित्याकारशब्दः, स कफात्मकेन श्वासेन भवति। मुरु चूर्णकसन्निभं श्वैत्यात्। सिप्रायन्त इति सिप्रानदीवत् स्वेदप्रादुर्भावादाचरन्तीति सिप्रायन्ते, किंवा सिप्रायन्त इति शिथिलीभवन्ति अनेकार्थत्वाद् धातूनाम् । स जीवितञ्चावबुध्यत इति यथोक्तरिष्टाभावेन जीवितं बुध्यते। तेन रिष्टसद्भावेन च मरणं बुध्यत इति ॥ १६-१९॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक तात्पर्य्यटीकायाम् इन्द्रियस्थाने सद्योमरणीयेन्द्रियं नाम दशमोऽध्यायः ॥ १०॥ . For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100