Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०म अध्यायः !
इन्द्रियस्थानम् । क्षीणशोणितमांसस्य वायुरुद्ध गतिश्चरम् । उभे मन्ये समे यस्य सद्यो मुष्णाति जीवितम् ॥ ६॥ अन्तरेण गुदं गच्छन नाभिञ्च सहसानिलः । कृशस्य वङ्क्षण गृह्णन् सद्यो मुष्णाति जीवितम् ॥ ७ ॥ वितत्य पशु काग्राणि गृहीत्वोरश्च मारुतः । स्तिमितस्यायताक्षस्य सद्यो मुष्णाति जावितम् ॥८॥ हृदयञ्च गुदे चोभे गृहीत्वा मारुतो बली । दुर्बलस्य विशेषेण सद्यो मुष्णाति जांवितम् ॥ ६ ॥ वङ्क्षणौ च गुदे चोभे गृहीत्वा मारुतो बली । श्वासं संजनयन् जन्तोः सद्यो मुष्णाति जीवितम् ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
२२२७
गङ्गाधरः- क्षीणेत्यादि । स्पष्टम् ॥ ६ ॥
गङ्गाधरः - - अन्तरेणेत्यादि । कृशस्यानिलो गुदं नाभिश्चान्तरेण गुदनाभी विना गच्छन् वङ्खणौ गृह्णन् जीवितं सद्यो मुष्णाति ॥७॥
गङ्गाधरः - वितत्येत्यादि । मारुतो नरस्य पशुकाग्राणि पारवस्थिनाम् अग्राणि वितत्य विस्तृतीकृत्य उरो वक्षश्च गृहीत्वा स्तिमितस्य स्तब्धाङ्गस्य आयताक्षस्य स्फारितनेत्रस्य तस्य जीवितं सद्यो मुष्णाति ॥ ८ ॥
गङ्गाधरः -- हृदयञ्चेत्यादि । बली मारुतो नरस्य हृदयं वक्षो गुदं चोभे उत्तरगुदश्चाधरगुदञ्च गृहीत्वा सर्व्वस्यापि जीवितं सद्यो मुष्णाति । दुब्बलस्य विशेषेणातिशीघ्र जीवितं मुष्णाति ।। ९ ।।
गङ्गाधरः- वङ्गणौ चेत्यादि । स्पष्टम् ॥ १० ॥
For Private and Personal Use Only
इति तितिक्षत इव, प्राणानां प्रियत्वेन स्वयं हननायोग्यत्वात् । पिण्डिके इति जङ्घापिण्डिके ॥ १-६ ॥
चक्रपाणिः - गुदं नाभिचान्तरेणेति गुदनाभिमध्ये हृदयं गृहीत्वेति हृदयं स्वविकारेण प्राप्येति ॥ ७-१० ॥
* गुदं नाभिञ्चान्तरेण गृह्णाति सहसाऽनिलः इति वक्रोक्तः पाठः ।

Page Navigation
1 ... 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100