Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 82
________________ ९ सर्गः] - चन्द्रप्रभचरितम् । श्रवणतटविलम्बि संविधत्ते नयनयुगं न किमेतदीयशोभाम् ।। वरतनु विफलक्रियं विधातुं यदसितमुत्पलमुद्यतासि कर्णे ॥ ८ ॥ चिरयसि परमेव निक्षिपन्ती रसमतिसान्द्रमलक्तकस्य कान्ते । । ननु किसलयभासि रागबन्धस्तव पदपद्मतले निसर्गसिद्धः ॥ ९ ॥ लघु जिगमिषुणेति काचिदूचे खवपुरलंकरणाकुला प्रियेण । प्रतिपदमवगच्छता तदीयं जघनमहाभरविनितं प्रयातम् ॥ १० ॥ सकृदबुधतया कृतेऽपराधे भवति ततो विनिवृत्तिरेव दण्डः । तदहमपि न तं पुनर्विधास्ये सुतनु तवेति स वल्लभो ब्रवीति ॥ ११ ॥ अपि च सुवदने नरो न दोषाद्विरमति शिक्षयते न यावदन्यः । स च कुसुमशरेण शिक्षितस्त्वद्विरहसखेन निनीषुणा विनाशम् ॥१२॥ न च सखि सुसहस्त्वयापि तावप्रियविरहः क्षयहेतुरङ्गयष्टेः । कथयति हि तवोष्ठबिम्बमुष्णश्वसितविरूक्षतमान्तरङ्गमाधिम् ॥ १३ ॥ त्यज मम विरहोऽधुनेव पश्चादपि न रुजाकर इत्यपि खमानम् । नहि भवति यथास्थिरं क्रियादावधिकृतनिर्वहणे तथैव चेतः ॥ १४ ॥ इति हितमधुरैरिवाहिमन्त्रैरपहृतमानविषा सखीवचोभिः । दयितमनुजगाम मन्दमन्दं निहितपदा किल नेच्छतीव काचित्॥१५॥ (कुलकम्) स्मरपरवशबुद्धिरंसपृष्ठप्रगमितपाणिधृतप्रियाकुचाग्रः । गजपतिरिव मन्थरेण कश्चित्समुपजगाम शनैः पदक्रमेण ॥ १६॥ कृतमनसिजवेगमूरुयुग्मं पथिजपरिश्रमनोदनापदेशात् । मुहुरलसगतेः स्पृशन्प्रियायाः समुपययावपरोऽल्पकेऽपि मार्गे ॥ १७ ॥ इति कृतविविधप्रकारचेष्टा मनसिशयाकुलचेतसः सभार्याः । विविशुरुपवनं पुरः प्रयातक्षितिपतिसेवितकृत्रिमाद्रि पौराः ॥ १८ ॥ तटविटपशिखावसक्तहस्ताश्चिरमनुपात्तनिमेषनेत्रयुग्माः। फलकुसुमसमृद्धिमीक्षमाणा हरिणदृशो वनदेवता इवाभुः ॥ १९ ॥ सति निजकरजारुणांशुभिन्ने जरठपलाशचये महीरुहाणाम् । समजनि वनिताजनस्य हेतुर्मदिमगुणो नवपल्लवावबोधे ॥ २० ॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190