Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१८ सर्गः] चन्द्रप्रभचरितम् ।
१५१ व्यहरद्यत्र यत्रासौ तत्र तत्र सुभिक्षता । अजायत जनप्रीत्यै योजनानां शतद्वये ॥ १३४ ॥ गगने गमनं तस्य सर्वेषामपि हृष्टये। बभूव प्राणिनां प्राणिविरोधेन विवर्जितम् ॥ १३५ ॥ तस्य भक्त्युपसर्गाभ्यां मनागपि न पस्पृशे । शीतेतरकरस्येव च्छायाविरहितं वपुः ॥ १३६ ॥ चतुराननतारूपमहातिशयशालिनः । चतुरा न नता तस्य काभ्युत्थाय वयं प्रजा ॥ १३७ ॥ पक्ष्मस्पन्दविनिर्मुक्ते बभतुस्तस्य लोचने । नीलोत्पले इवात्यन्तनिर्वातस्थानसंस्थिते ॥ १३८ ॥ सर्वविद्येशितुस्तस्य यथास्थानखमूर्धजम् । असाधारणतां तस्य वपुर्वक्तुमिवाभवत् ॥ १३९ ॥ स घातिक्षयजैरेभिरपरैर्दशभिर्गुणैः।। रराज रजसा मुक्तो मुक्तिसंगमनोत्सुकः ॥ १४० ॥ सर्वभाषात्मिका तस्य सर्वतत्त्वावबोधिनी । मागधी या बभौ भाषा मैत्री चाखिलगोचरा ॥ १४१ ॥ जज्ञे विहारतस्तस्य सर्वर्तुफलशालिनी । कृतरक्तविनिर्माणा भूर्दर्पणतलोपमा ॥ १४२ ॥ पादौ विरेजतुस्तस्य हेमाजरुचिपिञ्जरौ । जितेन रागमल्लेन भयादिव समाश्रितौ ॥ १४३ ॥ इत्येवमादिभिश्चान्यैः स चतुर्दशभिर्जिनः । दिद्युतेऽतिशयैर्देवनिकायपरिकल्पितैः ॥ १४४ ॥ प्रातिहार्यैश्च सोऽष्टाभिः शुशुभे शुभचेष्टितः ।
छत्रत्रयादिभिः सर्वजगदैश्वर्यशंसिभिः ॥ १४५ ॥ १. चतुराननता चतुर्मुखता, सा रूपं यस्य सः, स चासौ महातिशयश्च, तेन शालते इति विग्रहः.

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190