Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१५२
काव्यमाला ।
नवतियधिका तस्य सभायां गणिनोऽभवन् । द्वे तीक्ष्णतरबुद्धीनां सहस्रे पूर्वधारिणाम् || १४६ ॥ शिक्षकाणामुभे लक्षे चतुर्भिरधिकैः शतैः । अवधिज्ञानिनामष्टौ सहस्राणि महाधियाम् ॥ १४७ ॥ दश केवलनेत्राणां सहस्राण्यमलात्मनाम् । चतुर्दश सहस्राणि विक्रियर्द्धिमुपेयुषाम् ॥ १४८ ॥ मनः पर्ययिणामष्टौ सहस्राणि सतेजसाम् । सह षड्भिः शतैः सप्त सहस्राणि च वादिनाम् ॥ १४९ ॥ वरुणाद्यार्यिकाणां च विशुद्धतरचेतसाम् । अशीतिश्च सहस्राणि लक्षमेकं क्षतैनसाम् ॥ १५० ॥ श्रावकाणां च लक्षाणि त्रीणि सम्यक्त्वशालिनाम् । लक्षाणि पञ्च पूतानां श्रावकाणां व्रतादिभिः ॥ १५१ ॥ इत्थं विहृत्य भगवान्सकलां धरित्रीमध्यासितो गणधरैर्मुनिवृन्दवन्धैः । धर्मोपदेशजलवर्धितभव्यसस्य
संमेदशैलशिखरं स समाससाद ॥ १५२ ॥
तत्रासौ परिमुक्तमासविहतिः पक्षे सिते सप्तमी - तिथ्यां भाद्रपदे स्थितः प्रतिमया सार्धं मुनीनां गणैः । निर्बाधं दश पूर्वलक्षपरिमाणस्यायुषः प्रक्षये
शुक्लध्यान निरस्त कृत्स्नकलुषः सिद्धेः पदं शिश्रिये ॥ १५३ ॥ संश्लिष्टामथ तस्य भूधरपतेश्चैत्यालयोद्भासिनः
पूते मूर्धनि सार्ध कार्मुकशतोत्सेधां तदीयां तनुम् । संस्कृत्यागुरुचन्दनप्रभृतिभिः प्राप्तोरुपुण्योदयाः
कल्याणं प्रविधाय पञ्चममगुः खं खं पदं खर्गिणः ॥ १५४ ॥ इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्येऽष्टादशः सर्गः ।

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190