Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________ निर्णयसागरयन्त्रालये विक्रेयानि संस्कृत पुस्तकानि / -+case +प्रमेयकमलमार्तण्डः। श्रीचन्द्रप्रभाचार्यविरचितः / अयं जैनदर्शनस्यापूर्व उच्चकोटिको न्यायग्रन्थोऽस्ति / श्रीमाणिक्यनन्द्याचार्यप्रणीतस्य परीक्षामुखनाम्नः सुप्रसिद्धग्रन्थस्य वृत्तिरूपत्वेनायं समुल्ल. सति / प्रायः श्रीभोजराजकालीनोऽस्य प्रणेतासीदित्यनुमानतोऽष्टशत 800 नवशत 900 परिमितकालोऽस्य जन्मन आसीदिति निश्चीयते / जैनधर्मीयसर्वमान्यसिद्धान्तानां पाण्डित्येनात्र निरूपणं तथा कृतमस्ति यथा प्रबलयुक्तिभिरन्यमतसिद्धान्तानां खण्डनं स्यात् / श्रीहर्षप्रणीतखण्डनखण्डखाद्यग्रन्थसरणिसदृक्ष्येवास्यापि सरणिरिति पाण्डित्यप्रकर्षात्सर्वनैयायिकैरवश्यमादरणीयोयम् / .... .... 4 // प्रभावकचरितम्। . अयं जैनग्रन्थः / अत्र ग्रन्थे जिनमार्गावलम्बिनां महाप्रभावाणां कविरत्नानां प्रादुर्भावपूर्वकं जीवनसमये तेषां विद्यार्जन-सभापाण्डित्य-विद्वत्पराजय-ग्रन्थप्रणयनोर्जखित्वादिना यशःश्रीसंपादनादिगीर्वाणवाण्या गद्यपद्योभयरूपेण यथावद्वर्णितम् / .... .... 1 // .. पाण्डवचरितम् / श्रीमलधारिदेवप्रभसूरिविरचितम् / ग्रन्थकृता महाशयेन श्रीमहाभारततात्पर्य मनसि कृत्यात्र सर्वाण्यपि चरित्राणि विस्तृतैः 18 अष्टादशसगैर्नातिसंक्षेपविस्तराणि मनोहरैः पद्यैरेव ललिततराणि गुम्फितानि सन्ति. ........ / तुकाराम जावजी, निर्णयसागरमुद्रणालयाधिपतिः /

Page Navigation
1 ... 188 189 190