Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 158
________________ १८ सर्गः] चन्द्रप्रभचरितम् । इति संवरतत्त्वस्य रूपं संक्षिप्य कीर्तितम् । इदानीं क्रियते किंचिन्निर्जराया निरूपणम् ॥ १०८ ।। यथाकालकृता काचिदुपक्रमकृतापरा । निर्जरा द्विविधा ज्ञेया कर्मक्षपणलक्षणा ॥ १०९ ॥ या कर्मभुक्तिः श्वभ्रादौ सा यथाकालजा स्मृता । तपसा निर्जरा या तु सा चोपकर्मनिर्जरा ॥ ११० ॥ स्थितं द्वादशभिर्भेदैनिर्जराकरणं तपः । बाह्यमाभ्यन्तरं चेति मूलभेदद्वयान्वितम् ॥ १११ ॥ उपवासावमोदर्ये वृतिसंख्या रसोप्सनम् (१) । विविक्तवासना कायक्लेशश्चेति बहिर्भवम् ॥ ११२ ॥ खाध्यायो व्यावृतिर्ध्यानं व्युत्सर्गो विलयस्तथा । प्रायश्चित्तमिति ज्ञेयमान्तरं षड्डिधं तपः ॥ ११३ ॥ वाध्यायानस(श)नादीनां व्यक्तत्वादप्रपञ्चनम् । क्रियते दुर्विबोधत्वाध्यानस्यैव प्रपञ्चनम् ॥ ११४ ॥ आतै रौद्रं च धर्म च शुक्लं चापि चतुर्विधम् । ध्यानमाख्यातमर्हद्भिः शुभाशुभगतिप्रदम् ॥ ११५ ॥ अनिष्टसंगमे तस्य वियोगपरिचिन्तनम् । विप्रयोगे मनोज्ञस्य समागमविचिन्तनम् ॥ ११६ ॥ रोगादिजनितायाश्च वेदनाया मुहुः स्मृतिः। निदानं चेति चत्वारो भेदाः पूर्वस्य कीर्तिताः ॥ ११७ ॥ रौद्रं हिंसानृतस्तेयविषयप्रतिपालनैः । चतुर्भिर्जायमानत्वात्कारणैः स्याच्चतुर्विधम् ॥ ११८ ॥ आज्ञा विपाकविचयावपायविचयस्तथा । संस्थानविचयश्चेति धर्मध्यानं चतुर्विधम् ॥ ११९ ॥ पृथक्त्वादिवितर्कान्तं शुक्लमाद्यमुदीरितम् । एकत्वादि वितर्कान्तं द्वितीयमनुगद्यते ॥ १२० ॥ १. नरकादो. चन्द्र० १४ -

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190