________________
१८ सर्गः]
चन्द्रप्रभचरितम् । इति संवरतत्त्वस्य रूपं संक्षिप्य कीर्तितम् । इदानीं क्रियते किंचिन्निर्जराया निरूपणम् ॥ १०८ ।। यथाकालकृता काचिदुपक्रमकृतापरा । निर्जरा द्विविधा ज्ञेया कर्मक्षपणलक्षणा ॥ १०९ ॥ या कर्मभुक्तिः श्वभ्रादौ सा यथाकालजा स्मृता । तपसा निर्जरा या तु सा चोपकर्मनिर्जरा ॥ ११० ॥ स्थितं द्वादशभिर्भेदैनिर्जराकरणं तपः । बाह्यमाभ्यन्तरं चेति मूलभेदद्वयान्वितम् ॥ १११ ॥ उपवासावमोदर्ये वृतिसंख्या रसोप्सनम् (१) । विविक्तवासना कायक्लेशश्चेति बहिर्भवम् ॥ ११२ ॥ खाध्यायो व्यावृतिर्ध्यानं व्युत्सर्गो विलयस्तथा । प्रायश्चित्तमिति ज्ञेयमान्तरं षड्डिधं तपः ॥ ११३ ॥ वाध्यायानस(श)नादीनां व्यक्तत्वादप्रपञ्चनम् । क्रियते दुर्विबोधत्वाध्यानस्यैव प्रपञ्चनम् ॥ ११४ ॥ आतै रौद्रं च धर्म च शुक्लं चापि चतुर्विधम् । ध्यानमाख्यातमर्हद्भिः शुभाशुभगतिप्रदम् ॥ ११५ ॥ अनिष्टसंगमे तस्य वियोगपरिचिन्तनम् । विप्रयोगे मनोज्ञस्य समागमविचिन्तनम् ॥ ११६ ॥ रोगादिजनितायाश्च वेदनाया मुहुः स्मृतिः। निदानं चेति चत्वारो भेदाः पूर्वस्य कीर्तिताः ॥ ११७ ॥ रौद्रं हिंसानृतस्तेयविषयप्रतिपालनैः । चतुर्भिर्जायमानत्वात्कारणैः स्याच्चतुर्विधम् ॥ ११८ ॥ आज्ञा विपाकविचयावपायविचयस्तथा । संस्थानविचयश्चेति धर्मध्यानं चतुर्विधम् ॥ ११९ ॥ पृथक्त्वादिवितर्कान्तं शुक्लमाद्यमुदीरितम् ।
एकत्वादि वितर्कान्तं द्वितीयमनुगद्यते ॥ १२० ॥ १. नरकादो.
चन्द्र० १४
-