________________
१५०
काव्यमाला ।
अन्यसूक्ष्मक्रियापूर्वे प्रतिपात्यन्तमुच्यते । चतुर्थे प्रतिपात्यन्तं समुच्छिन्नक्रियोदकम् ॥ १२१ ॥ कथितेतिसमासेन निर्जरा संनिबन्धना । सांप्रतं मोक्षतत्त्वस्य रूपं व्यावर्णयिष्यते ॥ १२२ ॥ कृत्स्नकर्मक्षयो मोक्षो भव्यस्य परिणामिनः । ज्ञानदर्शनचारित्रत्रयोपायः प्रकीर्तितः ॥ १२३ ॥ तत्त्वप्रकाशकं ज्ञानं दर्शनं तत्त्वरोचकम् । पापारम्भपरित्यागश्चारित्रमिति कथ्यते ॥ १२४ ॥ संसारव्याधिविध्वंसे भाव्यमानमिदं त्रयम् । हेतुरेकाङ्गविकलो न हेतुरिव भेषजम् ॥ १२५ ॥ केवलं न यथाज्ञानं रुचितं समनुष्ठितम् ।
औषधं ध्वंसयेद्व्याधिं तथा तत्त्वं च संसृतिम् ॥ १२६ ॥
यथा सम्यक्परिज्ञानं रुचितं समनुष्ठितम् । औषधं ध्वंसयेद्व्याधिं तथा तत्त्वं च संसृतिम् ॥ १२७ ॥ कर्मणां प्रतिपक्षत्वान्मुक्तेर्ज्ञानादि कारणम् । ज्ञानादीनां विवृद्ध्या हि रागादिक्षयदर्शनम् ॥ १२८ ॥ रागादेश्च क्षयात्कर्मप्रक्षयो हेत्वभावतः । तस्माद्रलत्रयं हेतुर्विरोधात्कर्मणां क्षये ॥ १२९ ॥ क्षीणकर्मा ततो जीवः खदेहाकृतिमुद्वहन् । ऊर्ध्वं स्वभावतो याति वह्निज्वालाकलापवत् ॥ १३० ॥ लोकाग्रं प्राप्य तत्रासौ स्थिरतामवलम्बते । गतिहेतोरभावेन धर्मस्य परतो गतिः ॥ १३१ ॥ इति तत्त्वोपदेशेन प्रह्लाद्य सकलां सभाम् । भव्यपुण्यसमाकृष्टो व्यहरद्भगवान्भुवि ॥ १३२ ॥ निखेदत्वादिभिस्तस्य सहजैर्दशभिर्गुणैः । बभासे भुवनोद्भासि वपुर्भास्करभासुरम् ॥ १३३ ॥