Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 156
________________ १८ सर्गः ] चन्द्रप्रभचरितम् । कर्मणामागमद्वारमाश्रवं संप्रचक्षते । स कायवाङ्मनःकर्मयोगत्वेन व्यवस्थितः ॥ ८२ ॥ शुभः पुण्यस्य पापस्य विपरीतः प्रकीर्तितः । सकषायोऽकषायश्च तस्य द्वौ खामिनौ स्मृतौ ॥ ८३ ॥ तत्रासादनमात्सर्यगुरुनिह्नवनादयः । ज्ञानावृतिदृगावृत्योराश्रवत्वेन वर्णिताः ॥ ८४ ॥ परिदेवनसंतापशोकाक्रन्दवधादयः । असातावेदनीयस्य कर्मणः समनुस्मृताः ॥ ८५ ॥ सरागसंयमो दानं शौचं क्षान्त्यनुकम्पने । इत्येवमादयो ज्ञेयाः सातवेद्यस्य कर्मणः ॥ ८६ ॥ केवलिश्रुतधर्माणां देवस्य च गणस्य च । अवर्णवदनं दृष्टिमोहनीयस्य कीर्तितम् ॥ ८७ ॥ यः कषायोदयात्तीत्रः परिणामः प्रजायते । चारित्रमोहनीयस्य कर्मणः सोऽनुवर्णितः ॥ ८८ ॥ नारकस्यायुषो ज्ञेयो बारम्भपरिग्रहः । माया बहुविधाकारा तैर्यग्योनस्य कीर्तिताः ॥ ८९ ॥ मानुषस्यावगन्तव्यः खल्पारम्भपरिग्रहः । सरागसंयमत्वादिदैवस्य परिवर्णितम् ॥ ९० ॥ विसंवादनमत्यन्तयोगवक्रत्वमित्यपि । नानोऽशुभस्य विज्ञेयं विपरीतं शुभस्य च ॥ ९१ ॥ विज्ञेयास्तीर्थ लामो हक्शुयायाध षोडश । खप्रशंसान्यनिन्दादि नीचैर्गोत्रस्य वर्णितम् ॥ ९२ ॥ स्वनिन्दान्यमशंसादिरुचैर्गोत्रस्य वर्णितम् । दानादिविप्रकरणमन्तरायस्य कीर्तितम् ॥ ९३ ॥ इत्याश्रवपदार्थस्य सत्त्वं समुपवर्णितस् । अधुना बन्धसत्त्वस्य खरूपं व्याकरिष्यते ॥ ९४ ॥ १४७

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190