Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 157
________________ १४८ काव्यमाला । असम्यग्दर्शनं योगाविरतेश्च विपर्ययः । प्रमादाश्च कषायाश्च पञ्च बन्धस्य हेतवः ॥ ९५ ॥ सकषायतया जन्तोः कर्मयोग्यैर्निरन्तरम् । पुद्गलैः सह संबन्धो बन्ध इत्यभिधीयते ॥ ९६ ॥ विभेदात्प्रकृतिस्थित्योरनुभागप्रदेशयोः । जिनागमनदीस्नानैर्विज्ञेयः स चतुर्विधः ॥ ९७ ॥ ज्ञानदृष्ट्यावृतीवेद्यं मोहनीयायुषी तथा । नामगोत्रान्तरायाश्चेत्यष्टौ प्रकृतयः स्मृताः ॥ ९८ ॥ भेदाः पञ्च नव द्वौ च विंशतिश्वाष्टसंयुताः । चतुर्द्विचत्वारिंशद्वौ पञ्च तासामनुक्रमम् ॥ ९९ ॥ ज्ञानावृतिदृगावृत्योर्वेदनीयान्तराययोः । सागरोपमकोटीनां कोट्यस्त्रिंशत्परा स्थितिः ॥ १०० ॥ सप्ततिमहनीयस्य विंशतिर्नामगोत्रयोः । आयुषश्च त्रयस्त्रिंशत्सागरोपमसंमिताः ॥ १०१ ॥ मुहूर्तावेदनीयस्य द्वादशैवापरा स्थितिः । स्यान्नामगोत्रयोरष्टौ शेषाश्चान्तर्मुहूर्तकम् ॥ १०२ ॥ कर्मणां यो विपाकस्त भवक्षेत्राद्यपेक्षया । सोऽनुभावः समाम्नातो जिनैः केवललोचनैः ॥ १०३ ॥ योगभेदादनन्ता ये प्रदेशाः कर्मणः स्थिताः । सर्वेष्वात्मप्रदेशेषु स प्रदेश इति स्मृतः ॥ १०४ ॥ एवमेष चतुर्भेदभिन्नो बन्धो निरूपितः । संवरस्याधुना रूपं किंचिदुद्योतयिष्यते ॥ १०५ ॥ आश्रवस्य निरोधो यः संवरः स निगद्यते । कर्म संवियते येनेत्येवं व्युत्पतिसंश्रयात् ॥ १०६ ॥ चारित्रगुप्त्यनुप्रेक्षापरीषहजयादसौ । दशलक्षणधर्माच्च समितिभ्यश्च जायते ॥ १०७ ॥

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190