Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 132
________________ १५ सर्गः] चन्द्रप्रभचरितम् । १२३ तमसाधारणैश्चिहैः प्रत्यभिज्ञाय मन्त्रिणः । पद्मनाभमिति स्थित्वा कर्णमूले व्यजिज्ञपन् ॥ ११५ ॥ देव कोऽप्ययमत्यन्तममानुषबलः खलः । स्तूयते पृथिवीपालः समस्तकपटालयः ॥ ११६ ॥ तदस्मिन्नप्रमत्तेन प्रहर्तुं खयमुत्थिते । योद्धव्यं खामिना नायमवज्ञाविषयो रिपुः ॥ ११७ ॥ इति मन्त्रिगिरं कृत्वा हृदये दयितामिव । बभूव संमुखं शत्रोः सजीकृतशरासनः ॥ ११८ ॥ पादरक्षसमूहेन परिवारितकुञ्जरौ । तावभीयतुरन्योन्यमनन्यसमविक्रमौ ॥ ११९ ॥ उभावुभयमायोद्धं निषिध्य बलमुद्यतम् । दर्पादेकाकिनावेव पारेभाते महाहवम् ॥ १२० ॥ शिलीमुखशतैश्छन्नास्तयोस्तिर्यग्विसर्पिभिः । अदृश्यन्त दिगाभोगाः पतदुल्कोत्करा इव ॥ १२१ ॥ तच्छस्त्रकौशलालोकविनिश्चलविलोचनम् । भुवि भूमिभुजां सैन्यं तस्थौ दिवि दिवौकसाम् ॥ १२२ ॥ चलनैर्वलनैः स्थानैर्वल्गनैर्मर्मवञ्चनैः । तयोरभूद्धनुयुद्धं दृप्तदोर्दण्डचण्डयोः ॥ १२३ ॥ यान्यानमुञ्चतारातिरनिष्ठितशरः शरान् । रोपैरर्धागतानेव पद्मनाभो लुलाव तान् ॥ १२४ ॥ शिलीमुखैरजय्योऽयं धनुर्वेद विशारदः । इति मत्वाक्षिपत्प्रासान्स प्रयासविवर्जितः ॥ १२५ ॥ खण्डयामास तानर्धचन्द्रश्चन्द्रोज्वलाननः । गुरुः सुवर्णनाभस्य सुवर्णाचलनिश्चलः ॥ १२६ ॥ स चक्राणि विचिक्षेप क्षेपेण रहितो रुषा । तानि सौवर्णमालश्च चूर्णयामास मुद्गरैः ॥ २२७ ॥

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190