Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१७ सर्गः]
चन्द्रप्रमचरितम् । मणिघण्टिकाः सदसि रेणुंरकरहति कल्पवासिनाम् । ज्योतिरमरसदने सहसा प्रजगर्जुसर्जितरवं गजारयः ॥ ४ ॥ प्रणनाद भावनगृहेषु जलदपटुशङ्खसंहतिः । व्यन्तरसुरभवनेष्वहताः पटहाः प्रतिध्वनिमुचः प्रदध्वनुः ॥ ५ ॥ इति हेतुभिः प्रचलितैश्च समसमयमात्मविष्टरैः । ज्ञातजिनपतिभवाः परितो गगनं प्रपूर्य विबुधाः प्रतस्थिरे ॥ ६॥ प्रचलत्सुरासुरकिरीटकिरणनिकुरुम्बरञ्जिताः । मण्डनमिव जगृहुः ककुभोऽप्यथवा न कस्य जिनजन्म वृद्धये ॥ ७ ॥ अधुना व्यनक्ति जिन एव भुवनमिदमत्र किं मया । कृत्यमिति सुरविमानचयैस्त्रपयेव भानुरभवत्तिरोहितः ॥ ८ ॥ सुरपङ्किरानृपतिगेहमरुचदमरालयातता । अन्तरमकलयता द्युभुवोरिव मानरज्जुरुदतारि वेधसा ॥ ९ ॥ स चतुर्विधोऽपि नृपसद्म विविधमणिरत्नभासुरः । प्राप भृतसकलभूमितलो जलराशिवत्सुरगणः सवासवः ॥ १० ॥ अथ मायया जनितमात्रतदनुकृतिरूपमर्भकम् । मातुरुरसि विनिवेश्य शची जिनमुज्जहार गुरुभक्तिभाविता ॥ ११ ॥ तमुदीक्ष्य भासुरमशीतरुचिमिव शचीसमाहृतम् । पद्मवनमिव विकासमगाद्युगपत्सहस्रमपि चक्षुषां हरेः ॥ १२ ॥ सुरबृंहिते जयजयेति भुवनमभिसर्पति ध्वनौ । हस्तधृतवपुषमात्मगजं तमरोपयत्प्रथमकल्पनायकः ॥ १३ ॥ इतरे च तं परमभक्तिभरनतकिरीटकोटयः । भेजुरमरपतयोऽन्तगता विभृतातपत्रकलशाब्दचामराः ॥ १४ ॥ सुरयोषितो विविधधूपबलिकुसुमरुद्धपाणयः । मङ्गलमुखरमुखाम्बुरुहाः करिणीगताः समुपतस्थिरेऽप्रतः ॥ १५ ॥ चलितेऽभिमेरु सुरनाथनिवहपरिवारिते जने । नेदुरथ विबुधहस्तहताः परितः प्रयाणपरिशंसिमेरिकाः ॥१६॥ १. करताडनं विना शब्दं चक्रुः. २ अब्दो दर्पण इति टीका.

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190