Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१३८
काव्यमाला । विषयेषु शत्रुसदृशेषु विविधपरितापहेतुषु । सक्तिमविरतमतिः कुरुते हतबुद्धिरेव न तु बोधभासुरः ॥ ६९ ॥ विविधासु योनिषु वपूंषि विविधरचनानि धारयन् । इन्द्रियसुखलवलुब्धमतिर्नटवत्प्रयाति तनुमान्विडम्बनाम् ॥ ७० ॥ वपुरादधप्रविजहच्च विविधमिह यैर्विवञ्चितः । कर्मभिरहमधुना तपसा क्षिपयामि तानि निखिलानि मूलतः ॥ ७१ ॥ इति चिन्तनाकुलमुपेत्य सदसि जगदन्तिकामराः । चिन्तितमखिलहितं भवता जिन साधु साध्विति तमभ्यनन्दयन्॥७२॥ विमलाभिधानशिबिकास्थममरपतिरेत्य सामरः । प्रापदथ सकलर्तुवनं तमुरूत्सवेन कृतदुन्दुभिध्वनिः ।। ७३ ॥ प्रवितीर्य राज्यमवदातचरितवरचन्द्रसूनवे । षष्ठ(?)युगभिहितसिद्धनुतिः स तपोऽग्रहीद्दशशतैर्महीभुजाम् ॥ ७४ ॥ मणिभाजने समधिरोप्य विबुधपतिरात्मभक्तितः । क्षीरजलनिधिजले निदधे दृढपञ्चमुष्टिभिरपाकृतान्कचान् ॥ ७५ ॥ प्रविधाय तत्र पटुवाद्यनिनदरमणीयमुत्सवम् । क्षोभितसकलम्हीवलयं प्रययुः पुनः सुरगणा यथायथम् ॥ ७६ ॥ अथ सोमदत्तनृवरस्य नलिनपुरपालिनो गृहे । पंञ्चवसुनिपतनप्रभृतीन्यकृताद्भुतानि स गृहीतपारणः ॥ ७७ ॥ प्रशमादिभिः स चतुरोऽपि चतुरमतिरूर्जितैर्गुणैः । नाशमनयत केषायरिपून्विहरंस्तपखिजनयोग्यधामसु ॥ ७८ ॥ न परीषहास्तमसहन्त धृतिकवचिनं प्रबाधितुम् । क्षुत्तृडवनिशयनप्रमुखा युधि संवृताङ्गमिव शत्रुपत्रिणः ॥ ७९ ॥ अपरापरैः स समुपेत्य समयगततत्त्वगोचरम् । संशयमलमपहस्तयितुं प्रतिबासरं मुनिजनैरसेव्यत ॥ ८०॥ १. रमपुष्पगन्धोदकवृष्टयः, सुरभिमृदुपवनः, देवदुन्दुभिश्चेति पश्चवसूनि. २. क्रोधो मानो मामा लोपश्चेति कषाय इति सर्वदर्शनसंग्रहः.

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190