Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 148
________________ १७ सर्गः ] चन्द्रप्रभचरितम् । प्रकृतीर्नयंस्तनुतरत्वमतनुतपसामकर्मणाम् । तत्र पुनरपि जगाम वने समपादि यत्र निजमेव दीक्षणम् ॥ ८१ ॥ मुनिभिः स्थितः सहसमेत्य तलभुवि स नागशाखिनः । ध्यानमतुलमवलम्ब्य सितं हतघातिकर्मरिपुराप केवलम् ॥ ८२ ॥ तस्मिन्काले सह परिजनैर्यक्षराजेन गत्वा शक्रादेशात्समवशरणं निर्ममे तस्य भर्तुः । जैनादाद्यात्समवशरणायोजनाधर्धहान्या साधन्यष्टौ यदनुगदितं योजनान्यागमज्ञैः ॥ ८३ ॥ धूलीसालो वलयसदृशस्तस्य बभ्राम पार्श्वे मानस्तम्भाश्चतसृषु महादिक्षु तस्यान्तरस्थाः । चत्वार्यूर्ध्व विकचकमलाम्भांसि तेभ्यः सरांसि तेभ्यश्च विविधकुसुमा खातिका वारिकर्णा ॥ ८४ ॥ नानापुष्पा समजनि ततः पुष्पवाटी विशाला प्राकारोऽस्या विरचितचतुर्गो पुरोऽभ्यन्तराले । द्वाराद्वारात्परमुभयतो द्वे शुभे नाट्यशाले चत्वार्यासन्नमरनिचितान्यूर्ध्वमाभ्यां वनानि ॥ ८५ ॥ चत्वारोऽर्वै रुचिरवपुषो यागवृक्षा वनेषु तिस्रस्तिस्रो मणिमयतरैर्मण्डितास्तेषु वाप्यः । तत्रैवासन्बहुविधसभामण्डपाः क्रीडशैला धारायन्त्रैरभिवृतलतामण्डपैर्भ्राजमानाः ॥ ८६ ॥ तेभ्योऽप्यूर्ध्वं मणिमयचतुस्तोरणा वेदिकाभूद्यस्याभोगे समजनि परे केतुपतिर्विचित्रा । तस्याश्चोर्ध्वं मणिमयचतुर्गोपुरी हेमसालो रम्यं कल्पद्रुमवनमतोऽभूत्परस्मिन्विभागे ॥ ८७ ॥ १३९ १. तस्मिन्केवलोत्पत्तिसमये. २. सभाविशेषः ३. पञ्चवर्णमणिचूर्णप्राकारः. ४. अर्वाः प्रतिमाः. ५. ध्वजमाला.

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190