Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 149
________________ १४० काव्यमाला। तस्माज्जज्ञे पुनरपि चतुर्गोपुरा हेमवेदी ___ तस्या रेजुर्दश दशपराण्युल्लसत्तोरणानि । तेषां स्तूपा नव नव बभुर्मध्यदेशेषु सर्वे ___ तत्रैवासन्मुनिजनसभामण्डपास्तुङ्गशृङ्गाः ॥ ८८ ।। प्राकारोऽच्छस्फटिकघटितोऽभूत्पुरस्ताच्च तेभ्यः ___ कोष्ठास्तस्य स्फुरितरुचयो द्वादशान्ते बभूवुः । तेभ्यः स्थानं परमनुपमं गन्धकुट्याख्यमासी जज्ञे तत्र स्फुरदुरुमणिभ्राजितं सिंहपीठम् ॥ ८९॥ तस्योपरि स्फुरितभासुररत्नरश्मेः स प्रातिहार्यपरिभूषितदिव्यमूर्तिः । निर्बाधवीर्वसुखबोधनिधिर्जिनेन्द्र ___ स्तत्त्वोपदेशकथनाभिमुखोऽवतस्थे ॥ ९० ॥ दत्ताद्या मुनिभिः समं गणधराः कल्पस्त्रियः सज्जिता ज्योतिय॑न्तरभावनामरवधूसंघास्ततो भावनाः । वन्या ज्योतिषकल्पजाश्च विबुधाः खस्योदयाकाङ्क्षिण स्तस्थुादशसु प्रदक्षिणममी कोष्ठेषु मां मृगाः ॥ ९१ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये सप्तदशः सर्गः । अष्टादशः सर्गः। सर्वभाषाखभावेन ध्वनिनाथ जगद्गुरुः । जगाद गणिनः प्रश्नादिति तत्त्वं जिनेश्वरः ॥ १ ॥ जीवाजीवाश्रवा बन्धसंवरावथ निर्जरा।। मोक्षश्चेति जिनेन्द्राणां सप्त तत्त्वानि शासने ॥ २ ॥ बन्ध एव प्रविष्टत्वादनुक्तिः पुण्यपापयोः। तयोः पृथक्च पक्षे च पदार्था नव कीर्तिताः ॥ ३ ॥ चेतनालक्षणो जीवः कर्ता भोक्ता स्वकर्मणाम् । स्थितः शरीरमानेन स्थित्युत्पत्तिव्ययात्मकः ॥ ४ ॥ १. मध्ये.

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190