________________
१४०
काव्यमाला।
तस्माज्जज्ञे पुनरपि चतुर्गोपुरा हेमवेदी ___ तस्या रेजुर्दश दशपराण्युल्लसत्तोरणानि । तेषां स्तूपा नव नव बभुर्मध्यदेशेषु सर्वे ___ तत्रैवासन्मुनिजनसभामण्डपास्तुङ्गशृङ्गाः ॥ ८८ ।। प्राकारोऽच्छस्फटिकघटितोऽभूत्पुरस्ताच्च तेभ्यः ___ कोष्ठास्तस्य स्फुरितरुचयो द्वादशान्ते बभूवुः । तेभ्यः स्थानं परमनुपमं गन्धकुट्याख्यमासी
जज्ञे तत्र स्फुरदुरुमणिभ्राजितं सिंहपीठम् ॥ ८९॥ तस्योपरि स्फुरितभासुररत्नरश्मेः
स प्रातिहार्यपरिभूषितदिव्यमूर्तिः । निर्बाधवीर्वसुखबोधनिधिर्जिनेन्द्र
___ स्तत्त्वोपदेशकथनाभिमुखोऽवतस्थे ॥ ९० ॥ दत्ताद्या मुनिभिः समं गणधराः कल्पस्त्रियः सज्जिता
ज्योतिय॑न्तरभावनामरवधूसंघास्ततो भावनाः । वन्या ज्योतिषकल्पजाश्च विबुधाः खस्योदयाकाङ्क्षिण
स्तस्थुादशसु प्रदक्षिणममी कोष्ठेषु मां मृगाः ॥ ९१ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये सप्तदशः सर्गः ।
अष्टादशः सर्गः। सर्वभाषाखभावेन ध्वनिनाथ जगद्गुरुः । जगाद गणिनः प्रश्नादिति तत्त्वं जिनेश्वरः ॥ १ ॥ जीवाजीवाश्रवा बन्धसंवरावथ निर्जरा।। मोक्षश्चेति जिनेन्द्राणां सप्त तत्त्वानि शासने ॥ २ ॥ बन्ध एव प्रविष्टत्वादनुक्तिः पुण्यपापयोः। तयोः पृथक्च पक्षे च पदार्था नव कीर्तिताः ॥ ३ ॥ चेतनालक्षणो जीवः कर्ता भोक्ता स्वकर्मणाम् ।
स्थितः शरीरमानेन स्थित्युत्पत्तिव्ययात्मकः ॥ ४ ॥ १. मध्ये.