________________
१८ सर्गः]
चन्द्रप्रभचरितम् ।
भव्याभव्यप्रभेदेन द्विप्रकारोऽप्यसौ पुनः । नरकादिगतेर्भेदाच्चतुर्घा भेदमञ्जते ॥ ५ ॥ सप्तधा पृथिवीभेदान्नारकोऽपि प्रभिद्यते । अधोलोकस्थिताः सप्त पृथिव्यः परिकीर्तिताः ॥ ६ ॥ आद्या रत्नप्रभा नाम द्वितीया शर्कराप्रभा । सिकतादिप्रभान्या च परा पङ्कप्रभा मता ॥ ७ ॥ धूमप्रभा ततो ज्ञेया परा तस्यास्तमः प्रभा । महातमःप्रभा चेति तासां नामान्यनुक्रमम् ॥ ८ ॥ प्रथमायां पृथिव्यां ये नारकास्तेषु कीर्तिताः । उत्सेधः सप्त चापानि त्रयो हस्ताः षडङ्गुलाः ॥ ९ ॥ द्विगुणो द्विगुणोsन्यासु पृथिवीषु यथाक्रमम् । द्वितीयादिषु विज्ञेयो यावत्पञ्चधनुःशतीम् ॥ १० ॥ एकस्त्रयस्ततः सप्त दश सप्तदश क्रमात् । द्वाविंशतिस्त्रयस्त्रिंशत्ताखायुः सागरोपमम् ॥ ११ ॥ दशवर्षसहस्राणि जघन्यं प्रथमक्षितौ । द्वितीयादौ जघन्यं तत्प्रथमादौ यदुत्तमम् ॥ १२ ॥ त्रिंशन्नर कलक्षाणि प्रथमायां ततः परम् । पञ्चविंशतिरुद्दिष्टास्ततः पञ्चदश क्रमात् ॥ १३ ॥ दश त्रीणि ततो हीनं पञ्चभिर्लक्षमीरितम् । ततः पञ्चैव नरकाश्चरमायां प्रकीर्तिताः ॥ १४ ॥ बह्वारम्भादिसंभूतैः पापैः परवशीकृताः ।
तत्र जीवाः प्रपद्यन्ते दुःखं भूत्वौपपादिकाः ॥ १५ ॥ इति नारकभेदेन कृता जीवस्य वर्णना । तिर्यग्गतिकृतो भेदः सांप्रतं वर्णयिष्यते ॥ १६ ॥
१४१
१. द्वितीयोत्सेधः १५ चापानि, २ हस्तौ, १२ अङ्गुलानि । तृतीयोत्सेधः ३१ चा०, १ ह०, ० अ० । चतुर्थोत्सेधः ६२ चा०, २ ह०, • अ० । पञ्चमोत्सेधः १२५ चा०, ० ह०, अ० । षष्ठोत्सेधः २५० चा०, ० ०, ० अ ० । सप्तमोत्सेधः ५०० चा०, • ह०, ० अ०.
०