________________
१५ सर्गः] चन्द्रप्रभचरितम् ।
१२३ तमसाधारणैश्चिहैः प्रत्यभिज्ञाय मन्त्रिणः । पद्मनाभमिति स्थित्वा कर्णमूले व्यजिज्ञपन् ॥ ११५ ॥ देव कोऽप्ययमत्यन्तममानुषबलः खलः । स्तूयते पृथिवीपालः समस्तकपटालयः ॥ ११६ ॥ तदस्मिन्नप्रमत्तेन प्रहर्तुं खयमुत्थिते । योद्धव्यं खामिना नायमवज्ञाविषयो रिपुः ॥ ११७ ॥ इति मन्त्रिगिरं कृत्वा हृदये दयितामिव । बभूव संमुखं शत्रोः सजीकृतशरासनः ॥ ११८ ॥ पादरक्षसमूहेन परिवारितकुञ्जरौ । तावभीयतुरन्योन्यमनन्यसमविक्रमौ ॥ ११९ ॥ उभावुभयमायोद्धं निषिध्य बलमुद्यतम् । दर्पादेकाकिनावेव पारेभाते महाहवम् ॥ १२० ॥ शिलीमुखशतैश्छन्नास्तयोस्तिर्यग्विसर्पिभिः । अदृश्यन्त दिगाभोगाः पतदुल्कोत्करा इव ॥ १२१ ॥ तच्छस्त्रकौशलालोकविनिश्चलविलोचनम् । भुवि भूमिभुजां सैन्यं तस्थौ दिवि दिवौकसाम् ॥ १२२ ॥ चलनैर्वलनैः स्थानैर्वल्गनैर्मर्मवञ्चनैः । तयोरभूद्धनुयुद्धं दृप्तदोर्दण्डचण्डयोः ॥ १२३ ॥ यान्यानमुञ्चतारातिरनिष्ठितशरः शरान् । रोपैरर्धागतानेव पद्मनाभो लुलाव तान् ॥ १२४ ॥ शिलीमुखैरजय्योऽयं धनुर्वेद विशारदः । इति मत्वाक्षिपत्प्रासान्स प्रयासविवर्जितः ॥ १२५ ॥ खण्डयामास तानर्धचन्द्रश्चन्द्रोज्वलाननः । गुरुः सुवर्णनाभस्य सुवर्णाचलनिश्चलः ॥ १२६ ॥ स चक्राणि विचिक्षेप क्षेपेण रहितो रुषा । तानि सौवर्णमालश्च चूर्णयामास मुद्गरैः ॥ २२७ ॥