________________
१२२
काव्यमाला।
नीचोचितां समाकर्ण्य तदीयामिति भारतीम् । जगाद युवराडित्थं धनुर्ध्यामामृशन्मुहुः ॥ १०२ ॥ किमेभिरधमालापैर्मातुश्चापलसूचनैः । अस्ति कोऽप्यभिमानश्चेडौकखालं विलम्बनैः ॥ १०३ ॥ गदितुं युज्यतेऽस्माकं न भवद्भाषितं वचः । तुलयन्ति महान्तो हि नात्मानमधमैः समम् ॥ १०४ ॥ खैरेव दुर्नयैः पापाः पच्यन्ते येन दुर्जनाः । विभाषमाणान्सुजनस्तेन तानवमन्यते ॥ १०५ ॥ इत्यालापर्युवेशस्य मानवानपमानितः । अलक्ष्यमोक्षसंधानान्सरोषादमुचच्छरान् ॥ १०६ ॥ अर्धमार्गगतामेव तदीयामिषुसंहतिम् । सोऽप्यच्छिनदविच्छिन्नै रोपै रोपितकार्मुकः ॥ १०७ ॥ शिलीमुखक्षये प्रासैः कुन्तैः प्रासपरिक्षये । कुन्तक्षयेऽसिभिर्वीरौ सार्वकम्पौ प्रजहतुः ॥ १०८ ।। द्वावप्यतुलसामथ्र्यो द्वावप्यस्वकृतश्रमौ । न जानीमो जयः केति समशेत बलद्वयम् ।। १०९ ॥ चिरयुद्धपरिश्रान्तः प्रहृत्य स ततोऽसिना । दः सुवर्णनाभेन पृथिवीपालनन्दनः ॥ ११० ॥ बन्दिभिः स्तूयमानस्तं बन्दीकृत्य सुदुर्जयम् । हर्षासाविलनेत्रस्य निनाय पितुरन्तिकम् ॥ १११ ॥ परंतपस्तडिद्वकं चित्राङ्गः सिंहविक्रमम् । विजिग्ये वरुणं कण्ठश्चन्द्रकीर्ति सुकुण्डलः ॥ ११२ ।। अन्येऽपि रिपुपक्षस्था राजानो ये डुढौकिरे । ते पद्मनाभसामन्तैः कृता भग्नमनोरथाः ॥ ११३ ॥ अत्रान्तरे कंधाधावत्स्वयमेव महाबलः । पृथिवीपालभूपालः करालीकृतलोचनः ॥ ११४ ॥