________________
१५ सर्गः] चन्द्रप्रभचरितम् ।
स रोषाद्विगुणोत्साहो दन्तिना प्रेर्य दन्तिनम् । प्रतीच्छन्सुरसेनौघं जीवग्राहं तमग्रहीत् ॥ ८९ ॥ ततः पितुर्ग्रहामर्षात्समुत्तेजितसारथिः । रथी सूर्यरथोऽधावद्धीरध्वनिध्वनद्धनुः ॥ ९० ॥ समायान्तं समालोक्य पितुः श्रान्तस्य संमुखम् । महीरथस्तमाह्वास्त दत्त्वा खरथमन्तरा ॥ ९१ ॥ प्रहृत्य च चिरं चञ्चच्चारुचामीकरच्छवौ । निचखान तदीयोरःस्थलस्थाले शिलीमुखम् ॥ ९२ ॥ सप्रहारं तमादाय सारथिर्ववले बले। सुरमुक्तानि पुष्पाणि पेतुर्माहीरथे रथे ॥ ९३ ॥ ततः कलकलारावबधिरीकृतदिङ्मुखम् । डुढौके धर्मपालेन पृथिवीपालसूनुना ॥ ९४ ॥ वपुः कोपारुणं बिभ्रद्धृतदिव्यशरासनः। स वर्षशरधाराभिर्धनः सांध्य इवाबभौ ॥ ९५ ॥ संभूयाभिमुखीभूतं बलिनस्तस्य राजकम् । शरवर्घनस्येव संचुकोच गवां कुलम् ॥ ९६ ॥ कृत्स्नमायासितं दृष्ट्वा सामन्तकुलमाकुलम् । सुवर्णनाभोऽभिमुखीबभूव रिपुघस्मरः ॥ ९७ ॥ तं वाहितरथं वीक्ष्य धर्मपालो ज्वलन्क्रुधा । विव्याधेति वचोबाणैरधिक्षेपविषोक्षितैः ॥ ९८ ॥ अपसर्प प्रयाहीतः किं पुरो धृष्ट तिष्ठसि । भवद्विधे न मबाहुः प्रहर्तुमयमिच्छति ॥ ९९ ॥ नूनमिच्छति नो जेतुं भवतैव भवत्पिता । त्वन्मतेनान्यथा कस्मात्करोत्यसमविग्रहम् ॥ १० ॥ कस्त्वं भीमरथः को वा कियन्मात्रः स ते पिता । संभूय मेऽग्रतः सर्वे यदि शक्नुथ तिष्ठथ ॥ १०१ ॥