________________
काव्यमाला।
तं महास्त्रैर्महासेनश्चकार शतशर्करम् । दुर्धरप्रलयाम्भोदवचैरिव महीधरम् ॥ ७६ ॥ वीक्ष्य तार्क्ष्यमिव च्छिन्नपक्षं तं पतितं रणे । विरोचन इवासह्यधामाधावद्विरोचनः ॥ ७७ ॥ तं गजस्थं गजारूढः सेनः सेनासमन्वितः । संमुखैर्विमुखं बाणैर्विदधे पुरुविक्रमः ॥ ७८ ॥ धनुर्महारथेनाथ दुधुवे धैर्यशालिना । खपक्षव्यसनालोकसमुद्दीपितचेतसा ॥ ७९ ॥ नमश्रावितनामासौ बद्धभ्रुकुटिभीषणः । ववर्ष शरधाराभिरभि शत्रुपताकिनीम् ॥ ८० ॥ क्कासौ भीमरथो यस्य बलेन किल जेष्यति । पद्मनाभो नटत्क्रूरकबन्धामरिवाहिनीम् ॥ ८१ ॥ गर्वगद्गदमित्युक्त्वा चिह्नोद्देशेन संमुखम् । धावन्प्रत्यवतस्थेरिः शरैर्भीमरथेन सः ॥ ८२ ॥ चिरमक्षतदेहौ तौ शरैरप्राप्तखण्डितैः । युयुधाते महावीरौ विस्मितामरवीक्षितौ ॥ ८३ ।। ककुप्पर्यन्तविश्रान्ततद्बाणभयविह्वलम् । . नूनं व्योम तदा ह्यासीन्मुक्तमूर्तिपरिग्रहम् ॥ ८४ ॥ वीराभिलाषात्सर्पन्ती समीपमुभयोर्मुहुः । गतागतपरिक्लेशं न जयश्रीरजीगणत् ।। ८५ ।। मन्त्रेणेव ततः शत्रोः शङ्कना मूर्ध्नि ताडितः । मूर्छा भीमरथो भीमभुजंगम इवागमत् ॥ ८६ ॥ क्षणं प्रतीक्षते यावत्क्षात्रधर्माश्रयादरिः । उत्तस्थौ दशनैस्तावत्स दशन्दशनच्छदम् ॥ ८७ ॥ क्रोधस्तदङ्गे यः पूर्व मनाक्सुप्त इव स्थितः । गाढारातिप्रहारेण स प्रबुद्धः क्षणादभूत् ॥ ८८ ॥