________________
१५ सर्गः]
चन्द्रप्रभचरितम् । ..१ संभ्रमं मा वृथा कृव रूढे रणधुरां मयि । अदृष्टपूर्व भवतां ननु पृष्ठमरातिभिः ॥ ६३ ॥ प्राणैरस्थास्नुभिः स्थास्नु यशश्चेदधिगम्यते । क्रियते खामिकार्य च नाकृत्यं मरणं रणे ॥ ६४ ॥ इति संधीरयन्नात्मसैन्यं रणपराङ्मुखम् । डुढौके चण्डदोर्दण्डकृष्टकोदण्डदारुणः ॥ ६५ ॥ शरपञ्जरसंछन्नसमस्तगगनोदरः । चकार क्षणमात्रेण स शत्रुकुलमाकुलम् ॥ ६६ ॥ तं रथस्थं रथारूढः खर्भानुरिव भास्करम् । भीमः कटाक्षयामास पद्मनाभचमूपतिः ॥ ६७ ॥
त्रिभिः कुलकम् (विशेषकम्) तयोर्बभूव तुमुलं रणधूर्धरयो रणम् । व्योमव्यापीषुसंपातैर्दूरमुत्सारितामरम् ॥ ६८ ॥ परस्परास्त्रसंघट्टप्रोच्छलद्भुतभुक्छिखम् । तीक्ष्णरोपपरिक्षेपखण्डितान्योन्यकेतनम् ॥ ६९ ॥ प्रध्वनद्धनुरारावरोषितक्षीबकुञ्जरम् । प्रहारविगलद्रक्तधारारचितदुर्दिनम् ॥ ७० ॥ रन्ध्र प्राप्यार्धचन्द्रेण ततो भीमस्य भासुरम् । किरीटं पातयामास सचिह्न शशिशेखरः ॥ ७१ ।। भीमेनापि हतः शक्त्या क्रोधादरिरुरःस्थले । निपपात वमन्नतं सह खामिजयाशया ॥ ७२ ॥ पुरःपतितमालोक्य तं प्रतापमिव प्रभोः । केतुः केतुरिवोत्तस्थौ त्रासयन्नखिलं जनम् ॥ ७३ ।। स क्रुद्धेन सुभीमेन स्फुरदर्पमहाविषः । तायेणाशीविष इव निर्विषीकृत्य तर्जितः ॥ ७४ ॥ रथस्थेन समुत्तस्थे भने केतौ सुकेतुना।। पुरः प्रदर्शितात्मीयमरुच्चञ्चलकेतुना ॥ ७५ ॥ ..