________________
काव्यमाला।
शक्तिं शक्तित्रयाक्रान्तविष्टपो विससर्ज सः । गदाभिघातैस्तां वन्ध्यां व्यधादनसुराधिपः ॥ १२८ ॥ परशुं वाहयामास कृत्वासन्नं स दन्तिनम् । वनकेलिधरेणासौ वज्रमुष्ट्या कणीकृतः ॥ १२९ ॥ ततो मुमुक्षतः शङ्कु तस्य सोमप्रभाप्रियः । चञ्चच्चक्रेण चिच्छेद कदलीकन्दवच्छिरः ॥ १३० ॥ विद्रुते विद्विषां सैन्ये विलोक्य पतनं प्रभोः । रणं संशोधयामास वनकेलिशिरः स्पृशन् ॥ १३१ ॥ युद्धमूर्ध्नि शवीभूतान्बन्धूनुच्चित्य बान्धवाः । संस्कार प्रापयामासुरिन्धनीकृतसायकाः॥ १३२ ॥ अथ केनचिदानीय सेवकेन कृतं पुरः । पश्यन्निति शिरः शत्रोनिर्वेदमगमन्नृपः ॥ १३३ ॥ धिक्कष्टमीदृशं कर्म करोति कथमीरितः । लक्ष्मीकुलटया लोकः क्षणरक्तविरक्तया ॥ १३४ ॥ विपत्संपदि जागर्ति जरा जागर्ति यौवने । मृत्युरायुषि जागर्ति वियोगः प्रियसंगमे ॥ १३५ ॥ नावियोगः सुहृत्सङ्गो न जन्मामृत्युदूषितम् । यौवनं नाजराग्रस्तं श्री पदकटाक्षिता ॥ १३६ ॥ रक्षायै प्रजया दत्तं षष्ठांशं वेतनोपमम् । गृह्णन्भृतकवन्मूढो राजाहमिति मन्यते ॥ १३७ ॥ क्रोधादिभिरयं जीवः कषायैः कलुषीकृतः । तत्किंचित्कुरुते कर्म यत्वस्यापि भयावहम् ।। १३८ ॥ भ्रातॄन्हन्ति पितॄन्हन्ति बन्धूनपि निरागसः । हन्त्यात्मानमपि क्रोधाद्धिकोधमविचारकः ॥ १३९ ॥ हन्ता यथाहमस्यात्र परत्रैष तथैव मे । संसारे हि विवर्तन्ते बलवीर्यविभूतयः ॥ १४० ॥