________________
१५ सर्गः]
चन्द्रप्रभचरितम् । भोगान्धिग्धिग्धनं धिग्धिग्धिग्धिगिन्द्रियजं सुखम् । धिग्धिक्परोपघातेन यदन्यदपि जायते ।। १४१ ॥ हा कथं वञ्चितः पापः पापैरिन्द्रियगोचरैः। . विज्ञाताखिलसंसारदुरवस्थितिरप्यहम् ॥ १४२ ॥ न परं बन्धनं प्रेम्णो न विषं विषयात्परम् । न कोपादपरः शत्रुर्न दुःखं जन्मनः परम् ॥ १४३ ॥ तस्मात्करोमि तत्किंचिन्नृजन्मनि सुदुर्लभे । छिननि कर्मणा येन गतागतपरिश्रमम् ॥ १४४ ॥
त्रिभिः कुलकम् (विशेषकम्) दौःस्थित्यमिति संचित्य संसारस्य नरेश्वरः। वितीर्य युवराजाय राज्यं सपुरवाहनम् ॥ १४५ ॥ आज्ञां सुवर्णनाभस्य कुस्तिष्ठ पितुः पदे । सान्त्वयित्वेति शोकात पृथिवीपालनन्दनम् ॥ १४६ ॥ पदानतानवज्ञाय सामन्तान्सह सूनुना । स श्रीधरमुनेरन्ते शिश्रिये श्रमणश्रियम् ॥ १४७ ॥ ज्ञानर्धावुपजातायां सहैव व्रतरोपणैः । दीक्षासमय एवास्य शिक्षासमयतां ययौ ॥ १४८ ॥ द्वादशाङ्गश्रुताधारो द्वादशादित्यभासुरः । प्रत्यहं बृंहयामास स द्वादशविधं तपः ॥ १४९ ॥ विधिभिर्विविधाकारैः सिंहनिष्क्रीडितादिभिः । कर्मणा सह तस्यासीत्तनुस्तनुरतन्द्रिणः ॥ १५० ॥ त्रयोदशविधं तस्य चारित्रं जरतश्विरम् । तीर्थकृत्कारणानीति समपद्यन्त षोडश ॥ १५१ ॥ सम्यग्दर्शनसंशुद्धिः शङ्कादिपरिवर्जिता। . स धर्मिणि गुरौ वृद्धे श्रुते च विनयोऽधिकः ॥ १५२ ॥ व्रतेष्वहिंसाप्रभृतिष्वतिचारविपर्ययः । तदनेषु च शीलेषु क्रोधसंत्यजनादिषु ॥ १५३ ।। चन्द्र.१२