________________
१२६
काव्यमाला ।
ज्ञानोपयोगः सततमुपधानादिपूर्वकः । संवेगो घोरसंसारदुःखभीरुत्वलक्षणः ॥ १५४ ॥ त्यागश्चाभयदानादिप्रविभेदसमन्वितः । तपश्चागूढसामर्थ्यशरीरक्लेशलक्षणम् ॥ १५५ ॥ समाधिस्तपसो विने कुतश्चित्समुपस्थिते । गुणिनां दुःखसंपाते वैयावृत्त्यसमुद्यमः ॥ १५६ ॥ भक्तियोगोऽर्हदाचार्येष्वनुरागैकलक्षणः । बहुश्रुतेषु चाशेषशास्त्रार्थग्रन्थवेदिषु ॥ १५७ ॥ श्रुते च द्वादशाङ्गादिबहुभेदसमन्विते । षण्णामवश्यकार्याणां क्रियाणामपरिच्युतिः ॥ १५८ ॥ मार्गप्रभावनाज्ञानतपः प्रभृतिकारणैः । तथा दर्शनवात्सल्यं सद्धर्मस्नेहलक्षणम् ॥ १५९ ॥ इति शिवसुखसिद्ध्यै भावयन्षोडशैता
रहितसकलसङ्गो भावनाः शुद्धभावः । परहितकर चर्याबद्धबुद्धिर्वबन्ध व्रतनियमसमृद्धस्तीर्थकृन्नामकर्म ॥ १६० ॥
संन्यस्य सङ्गमखिलं निरवद्यवृत्तिराराध्य हक्करणबोधतपांस्यपांसुः । त्यक्त्वा तपोभरतनुं वतनुं स धीरो
भेजे सुरालयमनुत्तरवैजयन्तम् ॥ १६९ ॥ फुल्लन्मल्लीकुमुमसदृशा मोदमामोदिताशं
रत्नज्योत्स्नारुचिरमचिराद्देहमासाद्य सद्यः । दिव्यैः पुण्योदयपरिणतैस्तत्र भूत्वाहमिन्द्रो रेमे भोगैस्त्रयसमधिकत्रिंशदब्धिप्रमायुः ॥ १६२ ॥
इति श्रीवीरनन्दिकृतावुदया चन्द्रप्रभचरिते महाकाव्ये पञ्चदशः सर्गः ।