Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
१४ सर्गः ]
चन्द्रप्रभचरितम् ।
जयन्रुचा निस्तमसौ संमुत्कः शीतेतरांशूतमसौ समुत्कः । - द्रष्टुं चँमून्या जगदेकपाली बलेन साक्षाज्जगदे कॅपाली ॥ १९ ॥ निषेव्यविवरो बरो विविधनिर्झरालंकृतः
१०७
सदन्तिचमरोऽमरोपरितमाधवीमण्डपः । विकासिकमलोऽमलोपलविचित्रभाभासुरो
न विस्मयमयं नगः प्रविदधाति कस्येक्षितः ॥ २० ॥ तुहिनपाण्डुरतीरजसैकतां कमलजेन गतां रजसैकताम् । वहति सिन्धुमयं सरसामलंकृत दिशां च चयं सरसामलम् ॥ २१ ॥ सुरयुवतिजनस्य सानुभाजो वदनसरोरुहमण्डनोद्यतस्य । विगलिततिमिरासु संप्रसर्पन्भवति निशाखिह दर्पणो मृगाङ्कः ॥ २२ ॥ न महीरुहाः परिहृताः कुसुमैर्मणिदीपकैर्विरहिता न गुहाः । न नितम्बभूः सुरजनैर्विकला न सरः समुज्झितमिहाम्बुरुहैः ॥ २३ ॥ इह गगनचरैः कंदरागोचरैः सुरभिशुचिपटैः कामिनीलम्पटैः । अवसितसुरतैः सानुसेवारतैः समधुकररुतः सेव्यते मारुतः ॥ २४ ॥ अलिनीनिकुरुम्बचुम्बितामैः शिखरेऽस्य स्थलपुण्डरीकखण्डैः । भवतीव विकासशालिभिद्यौरुदिताने कसलाञ्छनेन्दुबिम्बा ॥ २५ ॥ विध्या तेऽप्यनिलवशेन मङ्गलार्थे दीपानामिह निकरे लतागृहेषु । वीक्षन्ते गगनचरा महौषधीना मुद्द्योतै रतिषु वधू खाम्बुजानि ॥२६॥ मत्वानुपप्लवशिखानिह रत्नदीपा - गत्यन्तरव्यपगमात्पिदधत्करेण । नेत्रे नितम्बगतवस्त्रहृतां प्रियाणां
प्रीत्यै भवत्यधिगुहं खचराङ्गनौघः ॥ २७ ॥ बिम्बितपुष्पगुच्छनिचितव्रततिषु निपत -
न्नस्य तडिल्लतानुकरणक्षमरुचिषु गिरेः । काञ्चनमेदिनीषु जनयति धिषणां
नीलदलोपहारविषयां मधुकरनिकरः ॥ २८ ॥ १ सहर्षः २. सुतरामुत्कण्ठितः ३. सेनान्या. ४. ईश्वरः.

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190