SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः ] चन्द्रप्रभचरितम् । जयन्रुचा निस्तमसौ संमुत्कः शीतेतरांशूतमसौ समुत्कः । - द्रष्टुं चँमून्या जगदेकपाली बलेन साक्षाज्जगदे कॅपाली ॥ १९ ॥ निषेव्यविवरो बरो विविधनिर्झरालंकृतः १०७ सदन्तिचमरोऽमरोपरितमाधवीमण्डपः । विकासिकमलोऽमलोपलविचित्रभाभासुरो न विस्मयमयं नगः प्रविदधाति कस्येक्षितः ॥ २० ॥ तुहिनपाण्डुरतीरजसैकतां कमलजेन गतां रजसैकताम् । वहति सिन्धुमयं सरसामलंकृत दिशां च चयं सरसामलम् ॥ २१ ॥ सुरयुवतिजनस्य सानुभाजो वदनसरोरुहमण्डनोद्यतस्य । विगलिततिमिरासु संप्रसर्पन्भवति निशाखिह दर्पणो मृगाङ्कः ॥ २२ ॥ न महीरुहाः परिहृताः कुसुमैर्मणिदीपकैर्विरहिता न गुहाः । न नितम्बभूः सुरजनैर्विकला न सरः समुज्झितमिहाम्बुरुहैः ॥ २३ ॥ इह गगनचरैः कंदरागोचरैः सुरभिशुचिपटैः कामिनीलम्पटैः । अवसितसुरतैः सानुसेवारतैः समधुकररुतः सेव्यते मारुतः ॥ २४ ॥ अलिनीनिकुरुम्बचुम्बितामैः शिखरेऽस्य स्थलपुण्डरीकखण्डैः । भवतीव विकासशालिभिद्यौरुदिताने कसलाञ्छनेन्दुबिम्बा ॥ २५ ॥ विध्या तेऽप्यनिलवशेन मङ्गलार्थे दीपानामिह निकरे लतागृहेषु । वीक्षन्ते गगनचरा महौषधीना मुद्द्योतै रतिषु वधू खाम्बुजानि ॥२६॥ मत्वानुपप्लवशिखानिह रत्नदीपा - गत्यन्तरव्यपगमात्पिदधत्करेण । नेत्रे नितम्बगतवस्त्रहृतां प्रियाणां प्रीत्यै भवत्यधिगुहं खचराङ्गनौघः ॥ २७ ॥ बिम्बितपुष्पगुच्छनिचितव्रततिषु निपत - न्नस्य तडिल्लतानुकरणक्षमरुचिषु गिरेः । काञ्चनमेदिनीषु जनयति धिषणां नीलदलोपहारविषयां मधुकरनिकरः ॥ २८ ॥ १ सहर्षः २. सुतरामुत्कण्ठितः ३. सेनान्या. ४. ईश्वरः.
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy